परिवृत्तिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिवृत्तिः, पुं, (परिवर्ज्जने वर्त्तते इति । परि + वृत् + क्तिच् ।) परिवित्तिः । इति हड्डः ॥ (परि + वृत् + भावे क्तिन् । परिवर्त्तनम् । यथा, महाभारते । १४ । १८ । २९ । “तस्य कालपरीमाणमकरोत् स पितामहः । भूतेषु परिवृत्तिञ्च पुनराघृत्तिमेव च ॥” अर्थालङ्कारविशेषः । यथा, साहित्यदर्पणे । १० । १०५ । “परिवृत्तिर्विनिमयः समन्यूनाधिकैर्भवेत् ॥” क्रमेणोदाहरणं यथा, -- “दत्त्वा कटाक्षमेणाक्षी जग्राह हृदयं मम । मया तु हृदयं दत्त्वा गृहीतो मदनज्वरः ॥” अत्र प्रथमेऽर्द्धे समेन द्वितीयेऽर्द्धे न्यूनेन ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिवृत्तिः [parivṛttiḥ], f.
Revolution; अभजत परिवृत्तिं साथ पर्यस्त- हस्ता Śi.1.91.
Return; turning back.
Barter, exchange.
End, termination.
Surrounding.
Staying or dwelling in a place.
Contraction of the prepuce.
(In Rhet.) A figure of speech in which there is an exchange of a thing for what is equal, less or greater; परिवृत्तिर्विनिमयो यो$र्थानां स्यात् समासमैः K. P.1; e. q. दत्त्वा कटाक्षमेणाक्षी जग्राह हृदयं मम । मया तु हृदयं दत्त्वा गृहीतो मदनज्वरः ॥ S. D.734.
Substitution of one word for another without affecting the sense; as in; शब्दपरिवृत्तिसहत्वम् K. P.1; e. g. in वृषध्वज, ध्वज may be substituted by लाञ्छन or वाहन.
