परिवृत्तिसह
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिवृत्तिसह¦ त्रि॰ परिवृत्तिं परावृत्तिंसहते सह--अच्। यौगिके शब्दभेदे स च पूर्वोत्तरपदयोः परावृत्त्यायोग-[Page4255-b+ 38] लभ्यार्थं बोधयतीति तस्य तथात्वम्। तत्र केचित् पूर्वपद-परावृत्त्यायोगलभ्यार्थबोधकाः केचिदुत्तरपदपरावृत्तत्त्या। केचित्तु नोभयिपदपरावृत्तिसहा यथाह हेमच॰(
“स्वस्वामित्वादिसम्बन्धं तत्राहुर्न्नामतद्वताम्। स्वात्पालधनभुग्नेतृपतिमत्वर्थकादयः। भूपालो भूधनो भू-भुग्भूनेता भूपतिस्तथा। भूमांश्चेतिकवेरूद्याज्ञेयोदाहर-णावली। जन्यात् कृत्कर्तृसृट्स्रष्टृविधातृकरसूसमाः। जनकाद्योनिजरुहजन्मभूसूत्यणादयः। धार्य्याद्ध्वजा-स्त्रपाण्यङ्कमौलिभूषणभृन्निभाः। शालिशेखरमत्वर्थ-भागिभर्तृधरा अपि। भोज्याद्भुगन्धोव्रतलिट्पायि-प्राशाशनादयः। पत्युःकान्तप्रियतमाबधूप्रणयिनी-निभाः। कलत्राद्वररमणप्रणयीशप्रियादयः। सख्युःसखिसमा बाह्याद्गामियानासनादयः। जनेः खसृ-दुहित्रात्मजाग्रजावरजादयः। आश्रयात्सद्मपर्यायश-यबासिसदादयः। बध्याद्भिद्द्वेषिजिद्घातिध्रुग्रिपुध्वंसि-शासनाः। अप्यन्तकारिदमनदर्पच्छिन्मथनादयः। वि-वक्षितो हि सम्बन्ध एकतोऽपि पदात्ततः। प्राक्प्रद-र्शितसम्बन्धिशब्दा योज्या यथोचितम्। दृश्यते खलुवाह्यत्वे वृषस्य वृषवा हनः। स्वत्वे पुनर्वृषपतिर्द्धार्य्यत्वेवृषलाञ्छनः। अंशोर्द्धाय्यत्वेऽंशुमाली स्वत्वेऽंशुपति-रंशुमान्। बध्यत्वेऽहेरहिरिपुर्भोज्यत्वे चाहिभुग-पि। चिह्नैर्व्यक्तैर्भवेद्व्यक्तेर्जातिशब्दोऽपि वाचकः। तथा ह्यगस्तिपूता दिग्दक्षिणाशा निगद्यते। अयुग्विषम-शब्दौ त्रिपञ्चसप्तादिवाचकौ। त्रिनेत्रपञ्चेषुसप्तपला-शादिषु योजयेत्। गुणशब्दो विरोध्यर्वं नञादिरितरो-त्तरः। अभिधत्ते यथाकृष्णः स्यादसितः सितेतरः। वार्द्ध्यादिषु पदे पूर्वे वाडवाग्न्यादिषूत्तरे। द्वयेऽपि भू-भृदाद्येषु पर्य्यायपरिवर्त्तनम्। एवं परावृत्तिसहायोगाःस्युरिति यौगिकाः। मिश्राः पुनः परावृत्त्यसहागी-र्वाणसन्निभाः”।
