परिवेशः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिवेशः, पुं, (परितो विशतीति । परि + विश् + घञ् ।) वेष्टनम् । परिधिः । इनि मेदिनी । शे । ३७ ॥ “वातेन मण्डलीभूताः सूर्य्याचन्द्रमसोः कराः । मालाभा व्योम्नि तनुते परिवेशः प्रकीर्त्तितः ॥” इति भरतधृतसाहसाङ्कः ॥
