परिवेषः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिवेषः, पुं, (परितो विष्यते व्याप्यतेऽनेन । विषिरौ व्यापने + घञ् ।) परिवृतिः । परिधिः । (बृहत्संहितायाम् ३४ अध्याये तल्लक्षणादिक- मुक्तम् । तद्यथा, -- “सम्मूर्च्छिता रवीन्द्वोः किरणाः पवनेन मण्डली- भूताः । नानावर्णाकृतयस्तन्वभ्रे व्योम्नि परिवेषाः ॥ ते रक्तनीलपाण्डुरकापोताभ्राभशबलहरि शुक्लाः । कुर्य्यात्त् पञ्चदश्यां पीडां मनुजाधिपस्यैव ॥ नागरकाणामभ्यन्तरस्थिता यायिनाञ्च वाह्यस्था । परिवेषमध्यरेखा विज्ञेया क्रन्दसाराणाम् ॥ रक्तः श्यामो रूक्षश्च भवति येषां पराजय- स्तेषाम् । स्निग्धः श्वेतो द्युतिमान् येषां भागो जय- स्तेषाम् ॥”) परिवेषणम् । इति हेमचन्द्रः ॥
