परिवेषिका
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिवेषिका, स्त्री, (परिवेषति या । परि + विष् + ण्वुल् । स्त्रियां टाप् अत इत्वञ्च ।) परि- वेषणकर्त्त्री । तस्या लक्षणं यथा, -- “स्नाता विशुद्धवसना नवधूपिताङ्गी कर्पूरसौरभमुखी नयनाभिरामा । विम्बाधरा शिरसि वद्धसुगन्धिपुष्पा मन्दस्मिता क्षितिभृतां परिवेषिका स्यात् ॥” इति पाकराजेश्वरः ॥
