सामग्री पर जाएँ

परिव्राट्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परिव्राट्, [ज्] पुं, (परित्यज्य सर्व्वं विषय- भोगं गृहस्थाश्रमाद् व्रजति गच्छतीति । परि + व्रज् + क्विप् दीर्घश्च ।) चतुर्थाश्रमी । तत्पर्य्यायः । भिक्षुः २ कर्म्मन्दी ३ पाराशरी ४ मस्करी ५ । इत्यमरः । २ । ७ । ४२ ॥ सन्न्यासी ६ श्रमणः ७ । इति जटाधरः ॥ परि- व्राजकः ८ पराशरी ९ व्रजकः १० । इति शब्द- रत्नावली ॥ तस्य लक्षणं यथा, गरुडपुराणे । “सर्व्वारम्भपरित्यागो भैक्ष्याश्यं ब्रह्ममूलता । निष्परिग्रहताद्रोहसमताः सर्व्वजन्तुषु ॥ प्रियाप्रियपरिष्वङ्गे सुखदुःखाविकारिता । संवाह्याभ्यन्तरं शौचं सुखदुःखाविकारिता ॥ सर्व्वेन्द्रियसमाहारो धारणा ध्याननित्यता । भावसंशुद्धिरित्येष परिव्राड्वर्य्य उच्यते ॥”

"https://sa.wiktionary.org/w/index.php?title=परिव्राट्&oldid=147285" इत्यस्माद् प्रतिप्राप्तम्