परिशुष्कम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिशुष्कम्, क्ली, (परितः शुष्कम् । शुष् + क्तः ।) मांसव्यञ्जनभेदः । यथा, -- “मांसं बहुघृतैर्भृष्टं सिक्तञ्चेच्चाम्बुना मुहुः । जीरकाद्यैः समायुक्तं परिशुष्कं तदुच्यते ॥” इति शब्दचन्द्रिका ॥ सर्व्वतोनीरसे त्रि ॥ (यथा, हेः रामायणे । २ । ५९ । ५ । “उपतप्तोदका नद्यः पल्वलानि सरांसि च । परिशुष्कपलाशानि वनान्युपवनानि च ॥”)
