सामग्री पर जाएँ

परिश्रान्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परिश्रान्तः, त्रि, (परि + श्रम + कर्त्तरि क्तः ।) सर्व्वतोभावेन श्रान्तियुक्तः । (यथा, महा- भारते । १ । ४९ । २६ । “परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः । क्षुधितः स महारण्ये ददर्श मुनिसत्तमम् ॥” स्त्री । गायत्रीस्वरूपा भगवती । यथा, देवी- भागवते । १२ । ६ । ९३ । “पावनी पादसहिता पेशला पवनाशिनी । प्रजापतिः परिश्रान्ता पर्व्वतस्तनमण्डला ॥”)

"https://sa.wiktionary.org/w/index.php?title=परिश्रान्तः&oldid=147302" इत्यस्माद् प्रतिप्राप्तम्