परिषद्वलः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परिषद्वलः, पुं, (परिषदस्यास्तीति । परिषद् + “रजःकृष्यासुतिपरिषदो वलच् ।” ५ । २ । १११ । इति वलच् ।) सभासदः । पारिषदः । इति शब्दरत्नावली ॥ (यथा, भट्टिः । ४ । १२ । “व्रातीनव्यालदीप्रास्तः सुत्वनः परिपूजयन् । परिषद्बलान्महाब्रह्मैराट नैकटिकाश्रमान् ॥”)
