सामग्री पर जाएँ

परिस्पन्दः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

परिस्पन्दः, पुं, (परि + स्पन्द + अधिकरणे घञ् ।) कुसुमप्रकरादेः पत्रावल्यादेश्च रचना । इत्य- मरः । २ । ६ । १३७ ॥ परिकरः । परिवारः । इति हेमचन्द्रः । ३ । ३७९ ॥ (भावे + घञ् ।) सर्व्वतोभावेन स्पन्दनञ्च ॥ (मर्द्दनम् । यथा, महाभारते । १ । १५४ । ८ । “अहमेनं हनिष्यामि प्रेक्षन्त्यास्ते सुमध्यमे ! । नायं प्रतिबलो भीरु ! राक्षसापसदो मम । सोढुं युधि परिस्पन्दमथवा सर्व्वराक्षसाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=परिस्पन्दः&oldid=147343" इत्यस्माद् प्रतिप्राप्तम्