परीवारः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परीवारः, पुं, (परिव्रियतेऽनेनेति । परि + वृ + घञ् । उपसर्गस्य दीर्घः ।) खड्गकोषः । जङ्गमः । (यथा, रघुः । १५ । १६ । “धूमधूम्रो वसागन्धी ज्वालाबभ्रुशिरोरुहः । क्रव्याद्गणपरीवारश्चिताग्निरिव जङ्गमः ॥”) परिच्छदः । इत्यमरः । ३ । ३ । १६८ ॥ परीवारः परिजने खड्गकोषे परिच्छदे । इत्यनेकत्र दर्शनात् । जङ्गमो जङ्गमविशेषः परिजन इत्यर्थः । खड्गकोषोऽसिवायकः मेयान् इति ख्यातः । परिच्छदः शोभाजनकमुपकरणं छत्रचामरादिः सभ्यजनादिश्च एषु परीवारः । इति तट्टीकायां भरतः ॥
