परीहासः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परीहासः, पुं, (परि + हस + घञ् । उपसर्गस्य दीर्घः ।) परीहसनम् । (यथा, मार्कण्डेये । ३४ । ८४ । “परीवादं न कुर्व्वीत परीहासञ्च पुत्त्रक ! ॥”) तत्पर्य्यायः । द्रवः २ केलिः ३ क्रीडा ४ लीला ५ नर्म्म ६ । इत्यमरः । १ । ७ । ३२ ॥ परिहासः ७ केलिमुखम् ८ देवनम् ९ । इति त्रिक्राण्ड- शेषः ॥
