परोक्षः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
परोक्षः, पुं, (परोक्षमस्यास्तीति । श्रुत्याप्तवाक्य- श्रवणजन्यदार्ढ्याच्चैवेति बोध्यम् ।) तपस्वी । इति शब्दमाला ॥ ययातिपुत्त्रस्यानोः पुत्त्रविशेषः । यथा, भागवते । ९ । २३ । १ । “अनोः सभानरश्चक्षुः परोक्षश्च सुतास्त्रयः ॥”)
