सामग्री पर जाएँ

पर्कटिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पर्कटी, [न्] पुं, वृक्षविशेषः । पाकुड इति भाषा ॥ तत्पर्य्यायः । प्लक्षः २ जटी ३ । इत्य- मरः । २ । ४ । ३२ ॥ कमण्डलुतरुः ४ । इति रत्नमाला ॥ कपीतनः ५ क्षीरी ६ सुपार्श्वः ७ कमण्डलुः ८ शृङ्गी ९ अवरोहः १० शाखी ११ गर्द्दभाण्डः १२ पीतनः १३ दृढप्ररोहः १४ प्लक्षकः १५ प्लवङ्गः १६ महाबलः १७ । अस्य गुणाः कटुत्वम् । कषायत्वम् । शिशिरत्वम् । रक्तदोषमूर्च्छाभ्रमप्रलापनाशित्वञ्च । विशेषतो ह्रस्वप्लक्षस्यैते गुणाः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पर्कटिन्¦ पु॰ पृच--अटिनि न्यड्का॰ कुत्मम्। प्लक्षवृ{??}(पाकुड)
“पर्कटी कटुकः प्रोक्तः शिशिरश्च कषायकः। रक्तदोषहरोमूर्च्छांप्रलापभ्रमनाशनः” राजनि॰ तद्-गुणा उक्ताः। [Page4260-b+ 38]

"https://sa.wiktionary.org/w/index.php?title=पर्कटिन्&oldid=281269" इत्यस्माद् प्रतिप्राप्तम्