सामग्री पर जाएँ

पर्ज्जन्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पर्ज्जन्यः, पुं, (पर्षति सिञ्चति वृष्टिं ददातीति । पृषु सेचने + “पर्ज्जन्यः ।” उणां । ३ । १०३ । इति निपातनात् षकारस्य जकारत्वे साधुः ।) इन्द्रः । (यथा, ऋग्वेदे । ६ । ५२ । १६ । “अग्नीपर्ज्जन्याववतं धियं मेऽस्मिन् हवे सुहवा शब्दायमानमेघः । इत्यमरः । ३ । ३ । १४६ ॥ मेघशब्दः । इति विश्वः ॥ अगर्ज्जन्नपि मेघ । इति भरतः ॥ यथा, श्रीभगवद्गीतायाम् । “यज्ञाद्भवति पर्ज्जन्यः पर्ज्जन्यादन्नसम्भवः ॥” (कश्यपपत्न्या मुनेः पुत्त्रविशेषः । स तु गन्धर्व्व- विशेषः । यथा, महाभारते । १ । ६५ । ४४ । “तथा शालिशिरा राजन् ! पर्ज्जन्यश्च चतुर्द्दश । कलिः पञ्चदशस्त्वेषां नारदश्चैव षोडशः ॥” पर्ज्जन्य इव सर्व्वकामप्रदानात् विष्णुः । यथा, महाभारते । १३ । १४९ । १०० । “कुमुदः कुन्दरः कुन्दः पर्ज्जन्यः पावनोऽनिलः ॥” “पर्ज्जन्यवदाध्यात्मिकादितापत्रयं शमयति सर्व्वान् कामानभिवर्षतीति पर्ज्जन्यः ।” इति शाङ्कर- भाष्यम् ॥)

"https://sa.wiktionary.org/w/index.php?title=पर्ज्जन्यः&oldid=147437" इत्यस्माद् प्रतिप्राप्तम्