पर्णनर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पर्णनरः, पुं, (पर्णैः पलाशपत्रैर्निर्म्मितो नरः नरा- कारः पुत्तलकः ।) पित्रादिशवास्थ्यलाभे दाहार्थ- तत्प्रतिनिधीभूतशरपलाशपत्ररचितोर्णातन्तु- वेष्टितयवपिष्टलिप्तनराकारपुत्तलकः । यथा, “आश्वलायनगृह्यपरिशिष्टम् । अस्थिनाशे पलाश- वृन्तानां त्रीणि षष्टिशतानि पुरुषप्रतिकृतिं कृत्वा, अशीत्यर्द्धन्तु शिरसि ग्रीवायां दश योजयेत् । ‘उरसि त्रिंशतं दद्यात् विंशतिं जठरे तथा ॥ बाहुभ्याञ्च शतं दद्यात् दद्यादङ्गुलिभिर्दश । द्वादशार्द्धं वृषणयोरष्टार्द्धं शिश्न एव च ॥ ऊरुभ्यान्तु शतं दद्यात् त्रिंशतं जानुजङ्घयोः । पादाङ्गुलीषु च दश एतत् प्रेतस्य लक्षणम् ॥ ऊर्णासूत्रेण संवेष्ट्य यवपिष्टेन लेपयेत् ॥’ आदिपुराणम् । ‘तदलाभे पलाशोत्थैः पत्रैः कार्य्यः पुमानपि । शतैस्त्रिभिस्तथा षष्ट्या शरपत्रैर्विधानतः ॥’ तदलाभे अस्थ्यलाभे । अत्र पलाशपत्रशरपत्रयोः तुल्यत्वेनोपादानात् आश्वलायनसूत्रेऽपि प्रति- कृतौ शरपत्रस्य लाभः । अत्राचाराद्योग्यत्वाच्च शरपत्रैः पुत्तलकं कृत्वा शिरप्रभृतिषु पलाश- पत्राणि देयानि । ततो वेष्टनं ऊर्णासूत्रेण लेपनं यवपिष्टेनेति । अशौचाभ्यन्तरदाहे शेषाहेन- शुद्धिः । तदुत्तरपर्णनरदाहे तु त्रिरात्रम् । एवं पर्णनरं दग्ध्वा त्रिरात्रमशुचिर्भवेदित्यादि पुरा- णात् । यज्ञपार्श्वः । ‘पुत्त्राश्चेदुपलभ्येरन् तदस्थीनि कदाचन । तदलामे पलाशस्य सम्भवे हि पुनः क्रिया ॥’ हि यस्मात्तदलाभे अस्थ्नामप्राप्तौ पलाशस्य तत- कृतपुत्तलकस्य दाहक्रिया । पुनरपि सम्भवे अस्थिलाभे पुनरपि अस्थिदाहक्रिया विहिता तस्माद्यदि पुनरस्थीनि प्राप्यन्ते तदा पुनर्दाह- त्रिरात्राशौचे कर्त्तव्ये न पुनः पिण्डादिदानं वक्ष्य- माणयुक्तेः । विष्णुः । “त्रिपक्षे तु गते पर्णनरं दह्यादनग्निकः । त्रिपक्षाभ्यन्तरे राजन्नैव पर्णनरं दहेत् ॥ तदूर्द्ध्वमष्टमीं प्राप्य दर्शं वापि विचक्षणः ॥” दहेदिति शेषः । अस्यार्थः । अशौचाभ्यन्तरे यदि पर्णनरदाहं न कुर्य्यात्तदा मरणदिना- वधित्रिपक्षानन्तरं दाहः कार्य्य इत्यर्थः । इति हरिदासतर्काचार्य्याः ॥ यादवभट्टोऽप्येवम् । व्यव- हारोऽपि ईदृश एव । ‘पर्णनरं दहेन्नैव विना दर्शं कदाचन । अस्थ्नामलाभे दर्शे तु ततः पर्णनरं दहेदिति ॥’ दीपकलिकायां सुमन्तुवचनात् दर्शे पर्णनर- दाहः । दर्शमित्यत्राष्टमीमिति क्वचित् पाठः । अत्राष्टमी कृष्णा पितृकर्म्मणि कृष्णपक्षस्य प्राशस्त्योक्तेः ।” इति शुद्धितत्त्वम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पर्णनर¦ पु पर्णनिर्मितः नर इव। अख्यलाभे मृतस्य दा-हार्थं पर्णनिमिते नराज्जतौ पुत्तलिकाभेदे तद्विधानंशु॰ त॰ उक्तं यथा(
“अथास्थ्यलाभे पर्णनरदाहः। तत्राश्वलायनमृह्यपरि-शिष्टम्
“अस्थिनाशे पलाशानां त्रीस्मि{??}ष्टिशंआनि च। पुस्पप्रतिकुतिं कृत्पा द{??}एत मन्त्रपूर्वकम्। अशीत्यर्ङ्गन्तुशिरसि ग्रीवायां दश योजयेत्। उरति त्रिं पतं दद्या-द्विंशतिं जठरे तथा। बाहुभ्याञ्च यतं दद्यात् दद्या-दष्ट्वलिभिर्दश। द्वादशार्द्गं वृषणवोरष्टार्द्वं धि{??} एवच। ऊरूभ्याञ्च शतं दद्यात्त्रिंशतं जासुजङ्घयोः। पादाङ्गसिषु च दश एतत् प्रेतस्य लक्षणम्। जर्णा-स्तत्रेण संबेष्ट्य यवपिष्टेन लेपयेत्”। आदिपुराणम्
“तदलाभे पलाशोत्यैः पत्नैः कार्य्य
१ पुमानपि। शतै-स्त्रिभिस्तश्रा षष्ट्या शरपत्रैर्विधानतः”। तदलाभेऽस्थ्य-लाभे। अत्र षलाशपत्रशरपत्रयोस्तुल्यत्वेनोपादानात्आश्चलायनगृह्येऽपि प्रतिकृतौ शरपत्रस्र लामः। अत्रा-चाराद्योग्यत्वाच्च शरपत्रैः पुत्तलकं कुत्वा शिरःप्रभृतिषुपलाशपत्राणि देयानि ततो वेष्टनमूर्णासूत्रेण, लेपनंबवपिष्टेनेति। अत्राशौचाभ्यन्तरे दाहे शेषाहेन शुद्धिःतदुत्तरपर्णनरदाहे तु त्रिरात्रम्।
“एवं वर्णनरंदग्धा त्रिरात्रमशुचिर्भवेत्” इत्यादिपुरणात्। यज्ञ-पार्श्वा
“पुत्राश्चेदुपलभ्येरन् तदस्थीनि कदाचन। तद-लामे पत्वाक्षस्य सम्भवे हि पुनःक्रिया”। हि वस्पा-तस्त्राभेऽस्यसंप्राप्तौ{??} दा-[Page4261-b+ 38] हक्रिया पुनरपि सम्भवे जाभेऽस्यिदाहक्रिया विहितातस्माद्यदि पुनरस्थीनि प्राप्यन्ते तदा पुनर्दाहे त्रिरात्राथौचे कर्तव्ये न पुनः पिण्डादिदानं वक्ष्यमाणयुक्तेः।
“अशौ चानन्तरं चेत् स्याद्दाहः पर्णनरस्य च। त्र्यहा-च्छुद्ध्यन्ति च तथा सन्निकृष्टाः{??}गोत्रजाः। दर्शे दहे{??}
“पर्णनरं दहेन्नैव विना दर्शं कथ{??}न। अस्थ्यलाभेतु दर्शेऽपि ततः पर्णनरं दहेत्” इति दीपकलिकायांसुमन्तुवचनात्। दर्शे इत्यत्राष्टम्यामिति कचित् पाठः। श्रष्टमी कृष्णा सन्देहे पितृकर्मणि कृष्णपक्षप्राधान्थेनोक्तेः।
“नरं पर्णं दहेत्वैव प्राक् त्रिपक्षात् कव-ञ्चन। त्रिपक्षे तु न वै दह्यात् दर्शे प्राप्ते ह्यनग्निकः”। इत्यशौचव्यपगमे बोध्यम्। यथाह शुद्धिरत्नाकरे यमः
“अशौचमध्ये यत्नेन दाहयेदुक्तया वृता। कृणपक्षेपञ्चदश्यामष्टम्यां वा समाहितः। एकादस्यां विशे-षेण ततः प्रभृति सूतकम्। त्रिरात्रं सर्ववर्ष्णनामेपधर्मो व्यबस्थितः। ” कृष्णपक्ष इत्यत्रा{??}औचव्यपनमेवोध्यम्। वायुपुराणे
“पर्णनरं दहेन्नैव प्राक् त्रिपक्षात्कथञ्चन। पितृहा मातृहाष्टम्यान्नैव दर्शे दहेत् यदि। ” विष्णुपु॰
“त्रिपक्षे तु गते पर्णनरं दद्यादनग्निकः। त्रिपक्षाभ्यन्तरे राजन्! नैव पर्णनरं दहेत्। तदूर्द्ध्वन-ष्टमीं प्राप्य दर्शं वापि विचक्षणः। ” दहेदिति ज्ञेयः।
“श्रशौचाभ्यन्तरे यदि दाहं न कुर्य्यात् तदा मरणदिना-वधि त्रिपक्षानन्तरं दाहः कार्य्य इत्यर्थः” इतिहरिदासकर्का{??}र्भ्याः।
“पर्श्यं नरं दहेग्नैन विनादर्शं कदाचन। अस्थ्नामलाभे दर्शे तु ततः पर्णनरंदहेत्” इति दीपकसिकायां सुमन्तुवचनाहर्थे दाहः। शत्राहमीति क्वचित् पाठः। यमः
“त्रिपद्वाभ्यन्तरेराजन्। नैव पर्णनरं दहेत्। तदूर्द्ध्वमष्टनीं प्राध दर्शंवापि विचक्षणः”। अ{??}मीत्यत्र{??}ष्टाष्टमीत्यर्थः। पितृकर्मणि कृष्णप{??}प्राधान्येनोक्तेः सति हरिदासत-काचार्य्यलिखनात्। एतच्चशै{??}व्यतिरिक्तविषयम्”। अत्र नक्षत्रादिकालभेदः स॰ घि॰ पी॰ उक्तो यथा(
“शुक्रारार्किषु दर्शभूतमदने नन्दा सुतीक्ष्णोग्रभेपौष्णे वारुणभे त्रिपुष्करदिने न्यूनाधिमासेऽयने। बाम्येऽवदात् परतश्च पातपरि{??} देवेज्यशुक्रास्तके भद्रा-वैष्टतयोः शवप्रतिक्वतेर्दाहो न पक्षे सिते। जन्मप्रत्यरि-तारयोर्मृतिसुखान्येऽब्जे च{??}र्तुर्न सन्{??}ध्यो मैत्र-भगादितिध्रुवविशाखाद्व्यङ्घ्रिभे क्षेऽपि च। श्रेष्ठो-[Page4262-a+ 38] ऽर्केज्यविधोर्दिने श्रुतिकरस्वात्यश्विपुष्ये तथा त्वाशौचा-त्परतो विचार्य्यमखिलं मध्ये यथासम्मवम्” मु॰ चि॰।
“एवंविधे दिने शवस्य मृतस्य प्रतिकृतिः शरपत्रादिनासावयवत्वकल्पनं तस्य दाहो न कार्यः कुतः यती द्विविधःप्रेतसंस्कारः प्रत्यक्षशरीरस्यैकः प्रतिकृतेरन्यः तत्र प्रत्यक्ष-शरीरसंस्कृतौ शुभाशुभदिनविचाराभावः यदाह गार्ग्यः
“प्रत्यक्षशवसंस्कारे दिनं नैव अविशोधयेदिति” प्रतिकृतिसं-स्कारस्य हि कासत्रयम् अशौचमध्ये वर्षमध्ये वर्षानन्तरंचेति अत्राशौचमध्ये यदि प्रतिकृतिसंस्कारश्चिकीर्षित-स्तदा यथासम्भवं दिनशुद्धिर्विचार्य्या वर्षमध्ये वर्षानन्तरं वाप्रतिकृतिसंस्कारे अवश्यं कालशुङ्गिर्विचार्या एतदप्याहगार्ग्य एव
“आशौचमध्ये क्रियते पुनः संस्कारकर्म चेत्। शोधनीयं दिनं तत्र यथासम्भवमेवमेव तु। आशौचवि-निवृत्ता चेत् पुनः संस्क्रियते मृतः। संशोध्यैव दिनं ग्रा-ह्यमूर्ध्वं संवत्सराद्यदि”। प्रेतकार्य्याणि कुर्वीतेति शेषःअतएवोक्तम्
“आशौयात्परतो विचार्यमखिलं मध्येयथासम्भवमिति”। एतद्वाक्यमत्रैव स्पष्टं व्याख्यास्यतेतत्र दिनशुद्धिरुच्यते शुक्रारेत्यादिना शुक्रः प्रसिङ्गःआरो मङ्गलः आर्किः शनिः एषां वारे प्रतिकृतेर्दाहोनेति प्रत्येकं सम्बन्धः। तथा दर्शोऽमाव{??} भूतसतुर्दशीमदनस्त्रयोदशी नन्दाः प्रतिपत्षष्ट्येकादश्यः आसुतिथिषु दाही न कार्यः यदाह मरीचिः
“नन्दायांभार्गवदिने चतुर्दश्यां त्रिपुष्करे। पितृश्राद्धं न कुर्वीतगृहो पुत्रधनक्षयात्। एकादश्यां तु नन्दायां तिनीवाल्यां नृगोर्दिने। नभस्ये च चतुर्दश्यां कृत्तिका{??}त्रिपुष्करे”। द्वितीयवाक्यमतिदुष्टताकथनार्थं सिनीबाल्याममावास्यायां भृगोर्दिने शुक्रयारे इति सुम्बन्धोव्याख्येयः अत्र श्रा{??} न कुर्वीतेत्यनुषङ्गः श्राद्भशब्दे-नात्र प्रेतक्रिया विवक्षिता। तथा तीक्ष्णोग्रभे मूल-ज्येष्ठार्दाश्लेषालीक्ष्यानि उग्राणि पूर्वात्रयभरणीषषाःपोष्णे रेवत्यां बारुणे शातभे त्रिपुष्करदिने भद्रातिथयःसूर्य्यभौमशनिवाराः कृत्तिकापुनर्वसूत्तराफाल्गुनी वि-शाखोत्तराषाढापूर्वभाद्रपदाः एतत्त्रितयसंहतिरूपे दिनेप्रतिवृतेर्दाहो न कार्य इति केचिद्व्याकुर्वते तत्र पूर्व-पद्येनैव निषेधसत्त्वात् मनु प्रत्यक्षमृतौ स निषेधोन तु प्रतिकृतिदाहे एवं तर्हि सम्मतिवाक्याभावान्नायमर्थइति ब्रूमः। यदुक्तं ज्योतिःपराशरेण
“साघारणध्रुवो-ग्रे मैत्रे नो शस्यते मसुध्याणाम्। प्रेतक्रिया कथ-[Page4262-b+ 38] ञ्चित् त्रिपुष्करे यमलधिष्ण्येवेति” अत तिर्पुव्करशब्देनबिशिष्टयोगो विवक्षित इति चेत् अत्र ब्रूमः त्रिचरण-नक्षत्राण्येव त्रिपुष्करपदेनोच्यन्तेऽतो हेमाद्रिणापिकृत्तिकादीन्येव तिचरणानि मानि त्रिपुष्करशब्देनव्याख्यातानि अतएवाह कश्यपः
“भरण्याद्रा मथा श्लेषामूलं त्रिचरणानि च। प्रेतक्रियासु दुष्टानि घनिष्ठाद्यं चपञ्चकम्” इति पराशरवाक्ये वहूनि प्रेतकृत्ये सामान्यतोनिषिडानि कश्यपवाक्येऽन्यानतिदुष्टान्युक्तानि इटमेवा-भिप्रेत्य ग्रन्यकृतोक्तानि तत्र धनिष्ठाया अग्रहणं मध्य-मेषु वक्ष्यमाणत्वात्। अथ न्यूनाधिमासे क्षयमासे अधि-मासे च शवप्रतिकृतिदाहो न कार्यः। उक्तञ्च ज्योति-र्निबन्धे गरुडपुराणे
“न कुर्य्यात् गुरुशुक्रास्ते पौषैखापे मलिम्लुबे। विसम्बितं प्रेतकार्यं गयां गीदावरींविनेति” मेधातिथिः
“अस्तं गते गुरी शुक्रे पौषाषा-ढाधिमासके। प्रेतकार्यं न कुर्वीत गयां गोदावरींविनेति” अधिमासस्योपलक्षणत्वात् क्षयमासेऽपि नकार्यं प्रेतकार्यमित्यर्थः। अतएव मूले न्यूनमासनिषेधः। अथाव्देकणाद्वर्षात्परतः ऊर्ध्वं याम्येऽयनेदक्षिणायने कर्कादिषड्राशिस्थिते सूर्य्ये न दाहः कार्यःअर्थादुत्तरायणं सम्यक्, उपलक्षणणत्वादवमदिनमपिनिषिद्धम् उक्तञ्च गार्ग्येण
“ऊर्ध्वं संवत्सराद्यदि” प्रेतकार्याणि कुर्वीत श्रेष्ठं तत्रोत्तरायणम्। वृष्णपक्षश्चतत्रापि वर्जयेत्तु दिनहूयम्”। इति गारुडपुराणेऽपि
“नकुर्य्याद्गुरुशुक्रास्ते पौषे स्वापे मलिम्लुचे। विलम्बितंप्रेतकार्यं गयां गोदावरीं विनेति”। अत्र वाक्ये पौषस्वा-पयोर्निषिङ्गत्वान्मार्गशीर्षस्य मध्यमत्वं प्रतीयते तदावश्य-कविषयं प्रथमवर्षे तु दक्षिणायनमपि शुभमेव। पात-परिथे व्यतिपाताख्ये योगे गणितागते व्यतीपाताख्येमहापात इत्यपि केचित् परिघाख्ये योगे तथा देबे-ज्यशुक्रास्तके गु{??}शुक्रयोरस्ते अत्र स्वार्थे कः। तथाभद्रावैधृतयोः भद्रावैधृतौ प्रसिङ्गौ गणितसाध्ये वैधृ-ताख्ये महापाते इत्यपि केचित्। तथा सिते पक्षे शुक्लपक्षेशवप्रतिकृतेर्दाहो न कार्यः। यदुक्तं नारदेन श्राद्गलक्ष-णाध्याये
“चतुर्दशीं तिथिं नन्दां शुक्रारावार्किवासरम्। सितेज्ययोरस्तमयं द्व्यङ्घ्रिभं विषमाघ्रिभम्। शुकुपक्षं चसन्त्यव्य पुनर्दहनमुच्यते” इति अन्यत्रापि
“नन्दा षदन-भूतायां पातवैघृतविष्टिषु। शुक्रार्किभौमपरिथध्रुवमिश्रोग्रमूलभे। कर्तुश्चन्द्रेऽष्टवेदान्त्ये ब्जन्मप्रत्यरितारके। [Page4263-a+ 38] त्रिपादभे सिते पक्षेऽयने याम्येऽव्दतः परम्। शवप्रतित्रतेदांहः शुक्रेऽस्तेऽधिकमासके। नेष्टो मध्यो द्विपा-न्मैत्रद्वीशादितिभगध्रुवे” इति तथा कर्तुः प्रेतश्रा-द्धाद्यधिकारिणो जन्मप्रत्यरितारयोः जन्मतारा उत्प-त्तिनक्षत्रं दशममेकोनविंशं चेति प्रत्यरितारा जन्मभात्पञ्चमं चतुर्दशं त्रयोविंशं चेति। कथा कर्तुर्मृतिमुखा-न्त्येऽब्जे स्वजन्मराशेरष्टमचतुर्थद्वादशस्थे चन्द्रे सतिदाहो न सन् न प्रशस्तः”। ( वराहपुराणे
“चतुर्थाष्टमगे चन्द्रे द्वादशे च वि-वर्जयेत्। प्रेतकृत्यं व्यतीपाते वैधृतौ परिघे तथा। करणे विष्टिसंज्ञे च शनैश्चरदिने तथा”। विष्टिसंज्ञंकरणं भद्रा। महाभारते
“नक्षत्रेण न कुर्वीत यस्मिन्जातो भवेन्नरः। न प्रोष्ठपदयोः कार्यं तथाग्नेयेऽपिभारत!। दारुणेषु च सर्वेषु प्रत्यरे च विवर्जयेत्” इतिप्रोष्ठपदयोः पूर्वाभाद्रपदोत्तराभाद्रपदयोः आग्नेये कृत्ति-कायाम्। कालविशेषादिकं नारदेनोक्तम्
“दिनोत्तरार्द्धेतत्कर्तुचन्द्रताराबलान्विते। पापग्रहे बलयुते शुक्रलग्नांशवर्जनम्। तत्पुनर्दहनं प्रोक्तमिति
“अथ शव-प्रतिकृतिदाहे मध्यनक्षत्राण्युच्यन्ते मैत्रमनुराघा भगःपूर्वाफाल्गुनी अदितिध्रुवविशाखाः प्रसिद्भाः द्व्यङ्घ्रिभंमृगचित्रा धनिष्ठा। ज्ञेऽपि बुधवारेऽपि शवप्रतिकृतिदाहीमध्यमः न शुभफलदो नाप्यनिष्टफलद इत्यर्थः उक्तञ्चकश्यपेन
“फल्गुनीद्वितयं रोहिण्यनुराधा पुनर्वसुः। द्वे आषाढे विशाखा च भानि द्विचरणानि च। एतानिकिञ्चिद्दुष्टानि वर्जयेत् सति सम्भवे” इति।
“नेष्टो मध्योद्विपान्मैत्रद्वीशादितिभगध्रुवः” इति चेत्युक्तेर्बुधे सम्म-त्यभावः। अथार्केज्यविधोरर्केज्याभ्यां सहितो विधुरितिमध्यमपदलोपी समासः। सूर्यगुरुचन्द्राणां दिने वारेदाहः श्रेष्ठस्तथा तेन करणेन श्रुतिकरस्वात्यश्विपुष्येएषु निषिद्धनक्षत्रगणाद्बहिर्भूतेषु पञ्चसु भेषु शवप्रतिकृते-र्दाहः श्रेष्ठोऽनुष्ठीयमानः शुभफलद इत्यर्थः। आशौचा-त्परत इत्यादिव्याख्यातार्थं ननु प्रतिकृतिसंस्कारः किं-निमित्तम् उच्यते। दैवान्मानुषाद्वाऽपराधान्मृतस्य विधि-वद्दाहो नाभूत् किन्तु काष्ठवद्दाहो जातीऽथ वा परदेश-गतस्य चौरदंष्ट्र्यादिहतस्य तद्भीतेरेव केनचित् काष्ठव-द्दाहोऽपि न कृतोऽथ वैकाकित्वान्न जातस्तदा प्रतिकृति-दाहो विघेयः उक्तञ्च ब्रह्मपुराणे
“अनाहिताग्नेर्देहस्तुदाह्यो गृह्याग्निना द्विजैः। तदभावे पलाशोत्थैः पत्रैः[Page4263-b+ 38] कार्यः पुमानपि। सुषिष्टैर्जलसंमिश्रैर्दग्धव्यश्च तथग्निना। असौ स्वर्गाय लीकाय स्वाहेत्युक्त्वा सबान्धवैः। एवं पर्णशवं दग्ध्वा त्रिरात्रमशुचिर्भवेत्” इति। तद-भावे देहाभावे तथाग्निना गृह्याग्निना अपिशब्दात्स्त्रीमरणे तद्देहाभावे स्त्र्यपि पलाशोत्थैः पत्रैः कार्य्ये-त्यर्थः। आहिताग्नेस्तु श्रौतसूत्रे विधिमाहापस्तम्बः
“यद्याहिताग्निः प्रोषितः प्रमीतो न प्रज्ञायेत स यां दिश-मभिप्रस्थितस्तां दिशमस्याग्निभिः कक्षं दहेयुरपि वाज-सनेयिनामिति त्रीणि षष्टिशतानि पलाशवृन्तानि तैःकृष्णाजिने पुरुषाकृतिं कृत्वा तामस्याग्निभिर्दहेयुरितिवा”। अत्र पक्षद्वयं यथाप्रवासगतो यदि न प्रज्ञायेतप्रमीत इति यतो मृत इत्येव निर्णये स यां दिशं प्रस्थितोभवेत्तां दिशं प्रति यः कक्षोऽकृष्टोभूमिप्रदेशस्तृणवांस्तंदेशमस्य मृतस्य श्रौत्राग्निभिस्तूष्णीं दहेयुर्बान्धवाः पितृ-मेधविधिना। अयमेकः पक्षः। अपि वा अथवा। त्रीणि षष्ठ्युत्तराणि शतानि
२६
० पलाशवृन्तानि पला-शानि पर्णानि यत्र तिष्ठन्ति तादृशानि वृन्तानि संपाद्यतैर्वृन्तैः पलाशवृक्षीयैस्त्रिपत्रैर्वृन्तैः कृष्णाजिने पुरुषाकृतिं कृत्वा तामाकृतिमस्याग्निभिः पितृमेधविधिना दहे-युरिति वाजसनेयिनां मतमिति द्वितीयः पक्षः। परा-शरेण तु कुशैः प्रतिकृतिः कार्येत्युक्तम्।
“कृष्णाजिनेसमास्तीयं कुशैस्तु पुरुषाकृतिमिति” कुर्य्यादिति शेषः। अत्र पलाशवृन्तकुशविध्योरन्यतरेणानुष्ठानं व्रीहियववत्तु-ल्यबलत्वात्। शवप्रतिकृतिदाहानुष्ठानविधिस्तु शौनका-द्युक्त दिशा ज्ञेयः नात्राप्रस्तुतत्वाल्लिख्यते अयं च पला-शवृन्तादिभिः प्रतिकृतिविधिरस्थ्यलाभे यदा तु मृतास्थ्रांलाभस्तदा तैरेव प्रतिकृतिः कार्य्या। यदुक्तं छन्दोगसूत्रे
“अथातः पुनर्दाहविधिं व्याख्यास्यामो यदि शरीरं नश्ये-दस्थीन्यादायास्थीनि क्षीरोदकेन प्रक्षाल्यास्थिभिः कृष्णा-जिने पुरुषाकृतिं कृत्वा पूर्बवद्दहेत्तेषामलाभे पलाशवृन्तैःकृष्णाजिने पुरुषाकृतिं कृत्वा चत्वारिंशता णिरो दशभि-र्ग्रीवां विंशत्योरस्त्रिंशतोदरं पञ्चाशता पञ्चाशता बाहू-तयोरेव पञ्चभिरङ्गुलीन् सप्तत्या सप्तत्या पादौ तथैवाङ्गु” लीरष्टाभिः शिश्नं द्वादशभिर्वृषणं तां कुशैर्वेष्टयित्वातस्मिन्नेव पूर्ववद्दहेदिति। अस्यार्थः चत्वारिंशता पला-शवृन्तैः शिरः संपाद्य दशभिर्ग्रीवां विंशत्योरस्त्रि शताजठरं पञ्चाशतैकबाहुं तथैव पञ्चाशताऽपरम् पञ्चभिःपञ्चभिरङ्गनीन् तथा सप्तत्या सप्तत्या पादद्वय तत एव[Page4264-a+ 38] पञ्चभिरङ्गुलीन् एवं पञ्च पञ्च षष्ठ्यैकः पादः सम्पन्नःअष्टाभिः शिश्नं द्वादशभिर्वृषणद्वयं एवं च षष्ट्यधिकत्रि-शत्या पलाशवृन्तैरवयवकल्पना भवति तां प्रतिकृतिंतस्मिन्नेव कृष्णाजिने पूर्ववदिति पितृमेधविधिना दहे-दित्यर्थः एतादृशे विषये कालनियमः शुक्रारार्किष्वि-त्यादिनोक्तः यतः
“अथातः संप्रवक्ष्यामि यत् पुनर्द-हनं नृणाम्” इत्यादिना पद्यसमुदायेन कालशुद्धिमुक्त्वा
“अतीतविषये काम्ये न्यूने श्राद्धे महालये। एतत्सर्वं विचिन्त्याशु कुर्याच्छ्रा{??}मतन्द्रितः” इति कश्यपेनकालातीतविषयत्वेनाभिधानात्”। ( आशौचमध्ये क्रियते चेत्तदा भद्रा भरणी धनिष्ठापञ्चकादिदोषराहित्यमपेक्षितं, नैव बहुकालव्यापिशुक्रा-स्तादिदोषापेक्षा कार्येति गर्गवाक्ये यथासम्भवपदस्यार्थःसर्वथा त्वाशौ चदिनेष दुष्टेषु दोषतारतम्येन महादोष-त्यागोऽल्पदोषाङ्गीकारी यथा लोकप्रसिद्ध्रिः तादृशे दिनेशवप्रतिकृतिदाहो विधेयः सर्वथा दोषरहिते दिने तू-त्तम एव सः। अथ यदि मरणश्रवणानन्तराशौचदिनानांराजिकदैविकब्राह्मणाद्यलाभरूपप्रतिवन्धादतिक्रसणमभू-चदाशौचमस्ति न वेति विचारः राजिकदैविकसम्भाव-नायां सत्यां सद्य एव शौचं स्यान्नत्वाशौचं यदाह परा-शरः
“दुर्मिक्षे राष्ट्रसन्वापे आपदां च समुद्भवे। उप-सर्ममृते चेव सद्यः शौचं बिधीयते” इति। यमवृह-स्पती
“दैवे भये समुत्पन्ने प्रधानांशे विनाशिते। सद्यःशौचं समाख्यातं कान्तारापदि स{??}प्रतीति”। पैठीनसि-रपि
“विवाहदुर्गयज्ञेषु यात्रायां तीर्थकर्मणि। नतत्र सूतकं तद्वत् कर्म यज्ञादि कारयेत्” इति। कालान्त-रालभ्यायाङ्गयादियात्रायां तादृशे एव तीर्थकर्मणितीर्थस्नानदानादिकर्माण तादृशे विषये आशौचग्रहाभा-वादेव शवप्रतिकृतिदाहाभावः यदा तु ब्राह्मणाद्यलाभ-स्तदाशौचपरिग्रहः स्यादेव परत्वाशौचदिनानन्तरं वर्ष-मध्ये दिनशुद्धिमपेक्ष्यैव शवप्रतिकृतिदाही विधेयः
“आशौचस्य निवृत्तौ चेत् पुनः संस्क्रियते मृतः। संशो-ध्यैव दिनं ग्राह्यमिति” गर्गेणैवकारसहितदिनपदोक्तेःअयमर्थः अत्रापि भद्राभरणीपञ्चकादिर्दोषः कतिपय-दिनव्यापी त्याज्य एव न तु शुक्रास्तादिकबहुकालव्यापिदोषप्रतीक्षा। तदुक्तं ज्योतिर्निबन्धे पितृखण्डे
“शुक्र-स्यास्तमने चैव देवेज्यस्य तथैव च। प्रेतकार्यं प्रदुष्येतप्रथमं वत्प्ररं विनेति”। अथ यदि वर्षमध्ये राजिक-[Page4264-b+ 38] दैविकाद्युपद्रवः सम्पन्नस्तदा वर्षोत्तरं निषिद्गदक्षिणा-यनशुक्रास्तादिमहादोषरहिते भद्राभरणीपञ्चकादिदोषरहिते च काले शवप्रतिकृतिदाहः कायः उक्तञ्च गा-र्ग्येण
“ऊर्ध्वं संवत्सराद्यदि। प्रेतकार्याणि कुर्वीतश्रेष्ठंतत्रोत्तरायणम्” इत्यादीनि मूलवाक्यानि प्रागभिहि-तानि। अतएव मूलपद्येऽप्यव्दात्परतो याम्येऽयने तथादेवेज्य शुक्रास्तके शवप्रतिकृतिदाहो न कार्य इतिव्याख्येयम्। प्रथमे वर्षे तु नायं दोषः सर्बत्रापि गया-गोदावर्य्योस्तीर्थयोः प्राप्तयोः सतीरयं शुक्रेज्यास्तदक्षि-णायनादिमहादोषविचारः कोऽपि नास्ति तदुक्तं ज्यो-तिर्निबन्धे प्रेतमञ्जर्य्याम्।
“प्रेतकार्य्याणि सर्वाणि व्रत-स्नानजपादिकम्। वर्ज्यं शुक्रेज्ययोरस्ते गयां गोदा-वरीं विनेति” पी॰ धा॰। अत्र दर्शे विध्रिनिषेधौ देशाचा-रभेदात् व्यवस्थाप्यौ पर्णशवपर्णपुत्तलिकादयोऽप्यत्रार्थे।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पर्णनर¦ m. (-रः) A man of leaves, an effigy stuffed with leaves, made to represent a person deceased, whose body cannot be found, and for whom obsequial rites are performed with this representative. E. पर्ण, and नर a man.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पर्णनर/ पर्ण--नर m. " man of -lleaves " , an effigy stuffed with -lleaves or made of -lleaves and burnt as a substitute for a lost corpse Cat.
