पर्णनरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पर्णनरः, पुं, (पर्णैः पलाशपत्रैर्निर्म्मितो नरः नरा- कारः पुत्तलकः ।) पित्रादिशवास्थ्यलाभे दाहार्थ- तत्प्रतिनिधीभूतशरपलाशपत्ररचितोर्णातन्तु- वेष्टितयवपिष्टलिप्तनराकारपुत्तलकः । यथा, “आश्वलायनगृह्यपरिशिष्टम् । अस्थिनाशे पलाश- वृन्तानां त्रीणि षष्टिशतानि पुरुषप्रतिकृतिं कृत्वा, अशीत्यर्द्धन्तु शिरसि ग्रीवायां दश योजयेत् । ‘उरसि त्रिंशतं दद्यात् विंशतिं जठरे तथा ॥ बाहुभ्याञ्च शतं दद्यात् दद्यादङ्गुलिभिर्दश । द्वादशार्द्धं वृषणयोरष्टार्द्धं शिश्न एव च ॥ ऊरुभ्यान्तु शतं दद्यात् त्रिंशतं जानुजङ्घयोः । पादाङ्गुलीषु च दश एतत् प्रेतस्य लक्षणम् ॥ ऊर्णासूत्रेण संवेष्ट्य यवपिष्टेन लेपयेत् ॥’ आदिपुराणम् । ‘तदलाभे पलाशोत्थैः पत्रैः कार्य्यः पुमानपि । शतैस्त्रिभिस्तथा षष्ट्या शरपत्रैर्विधानतः ॥’ तदलाभे अस्थ्यलाभे । अत्र पलाशपत्रशरपत्रयोः तुल्यत्वेनोपादानात् आश्वलायनसूत्रेऽपि प्रति- कृतौ शरपत्रस्य लाभः । अत्राचाराद्योग्यत्वाच्च शरपत्रैः पुत्तलकं कृत्वा शिरप्रभृतिषु पलाश- पत्राणि देयानि । ततो वेष्टनं ऊर्णासूत्रेण लेपनं यवपिष्टेनेति । अशौचाभ्यन्तरदाहे शेषाहेन- शुद्धिः । तदुत्तरपर्णनरदाहे तु त्रिरात्रम् । एवं पर्णनरं दग्ध्वा त्रिरात्रमशुचिर्भवेदित्यादि पुरा- णात् । यज्ञपार्श्वः । ‘पुत्त्राश्चेदुपलभ्येरन् तदस्थीनि कदाचन । तदलामे पलाशस्य सम्भवे हि पुनः क्रिया ॥’ हि यस्मात्तदलाभे अस्थ्नामप्राप्तौ पलाशस्य तत- कृतपुत्तलकस्य दाहक्रिया । पुनरपि सम्भवे अस्थिलाभे पुनरपि अस्थिदाहक्रिया विहिता तस्माद्यदि पुनरस्थीनि प्राप्यन्ते तदा पुनर्दाह- त्रिरात्राशौचे कर्त्तव्ये न पुनः पिण्डादिदानं वक्ष्य- माणयुक्तेः । विष्णुः । “त्रिपक्षे तु गते पर्णनरं दह्यादनग्निकः । त्रिपक्षाभ्यन्तरे राजन्नैव पर्णनरं दहेत् ॥ तदूर्द्ध्वमष्टमीं प्राप्य दर्शं वापि विचक्षणः ॥” दहेदिति शेषः । अस्यार्थः । अशौचाभ्यन्तरे यदि पर्णनरदाहं न कुर्य्यात्तदा मरणदिना- वधित्रिपक्षानन्तरं दाहः कार्य्य इत्यर्थः । इति हरिदासतर्काचार्य्याः ॥ यादवभट्टोऽप्येवम् । व्यव- हारोऽपि ईदृश एव । ‘पर्णनरं दहेन्नैव विना दर्शं कदाचन । अस्थ्नामलाभे दर्शे तु ततः पर्णनरं दहेदिति ॥’ दीपकलिकायां सुमन्तुवचनात् दर्शे पर्णनर- दाहः । दर्शमित्यत्राष्टमीमिति क्वचित् पाठः । अत्राष्टमी कृष्णा पितृकर्म्मणि कृष्णपक्षस्य प्राशस्त्योक्तेः ।” इति शुद्धितत्त्वम् ॥
