पर्णम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पर्णम्, क्ली, (पिपर्त्तीति । पॄ + “धापॄवस्यज्यतिभ्यो नः ।” उणां । ३ । ६ । इति नः । यद्वा, पर्णयतीति । पर्ण त् क हारित्ये + अच् ।) पत्रम् । इत्यमरः । २ । ४ । १४ ॥ (यथा, कुमारे । ५ । २८ । “स्वयं विशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः । तदप्यपाकीर्णमतः प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः ॥”) ताम्वूलम् । यथा, राजनिर्घण्टे । “अनिधाय मुखे पर्णं पूगं स्वादयते नरः । मतिभ्रंशो दरिद्रः स्यादन्ते न स्मरते हरिम् ॥ ताम्बूलधारिलक्षणं यथा, -- “अनाहार्य्योऽनृशंसश्च दृढभक्तिश्च पार्थिवे । ताम्बूलधारी भवति नारी वाप्यथ तद्गुणा ॥” इति मात्स्ये १८९ अध्यायः ॥ (पिपर्त्ति पालयति गगनपातादिति । पॄ + न । पक्षः । यथा, महाभारते । १ । ३३ । २४ । “तदुत्सृष्टमभिप्रेक्ष्य तस्य पर्णमनुत्तमम् । हृष्टानि सर्व्वभूतानि नाम चक्रुर्गरुत्मतः । सुरूपं पत्रमालक्ष्य तस्य पर्णमनुत्तमम् ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पर्णम् [parṇam], 1 A pinion, wing; as in सुपर्ण.
The feather of an arrow.
A leaf.
The betel-leaf; ततो नृपतिनिदेशात् ते पर्णान्यादाय सैनिकाः (जग्मुः) Parṇāl.5.25.-र्णः The Palāśa tree. -Comp. -अशनम् feeding on leaves. (-नः) a cloud. -असिः a kind of basil.-आहार a. feeding upon leaves; cf. Rām.3.6.2.-उटजम् a hut of leaves, a hermit's hut, a hermitage.-कारः a vendor of betel-leaves. -कुटिका, -कुटी a hut made of leaves. -कूर्चः A kind of religious vow in which one has to drink a decoction of leaves; एतान्येव समस्तानि त्रिरात्रोपोषितः शुचिः । क्वाथयित्वा पिवेदद्भिः पर्णकूर्चो$भि- धीयते ॥ Yama Smṛiti. -कृच्छ्र a kind of expiatory penance which consists in living upon an infusion of leaves and Kuśa grass only for five days; see पर्णोदुम्बर- राजीवबिल्वपत्रकुशोदकैः । प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः ॥ Y.3.317 and Mitā. thereon. -खण्डः a tree without apparent blossoms. (-डम्) a collection of leaves.-चरः a kind of deer. -चीरपटः an epithet of Śiva.-चोरकः a kind of perfume (gall-nut). -नरः) the figure of a man made of leaves and burnt in place of a lost corpse. -नालः a leaf-stalk. -भेदिनी the Priyaṅgu creeper. -भोजनः a goat. -मुच् m. the winter season (शिशिर). -मृगः any wild animal living in the boughs of trees (as a monkey, squirrel, &c.). -रुह् m. the spring season (वसन्त). -लता the betel-plant. -वाटिका pieces of areca-nut mixed with other spices and rolled up in betel-leaves. -शय्या a bed or couch of leaves. -शाला a hut made of leaves, a hermitage; निर्दिष्टां कुलपतिना स पर्णशालामध्यास्य R.1.95;12.4; -संस्तरः one with a bed of leaves; वनेषु वासतेयेषु निवसन् पर्णसंस्तरः Bk.4.8.
