पर्य्यङ्क
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पर्य्यङ्कः, पुं, (परितोऽङ्व्यते इति । परि + अकि- लक्षणे + घञ् ।) खट्वा । पालङ्ग इति भाषा ॥ इत्यमरः । २ । ६ । १३८ ॥ तत्पर्य्यायः । (मञ्चः मञ्चकः ३ पल्यङ्कः ४ । इति हेमचन्द्रः । ३ । ३४७ ॥) पर्य्यस्तिका ५ परिकरः ६ अवसक्थिका ७) इति च तत्रैव । ३ । ३४३ ॥ (यथा, महा- भारते । ३ । २४६ । ८ । “अथोपविष्टं राजानं पर्य्यङ्के ज्वलनप्रभे । उपप्लुतं यथा सोमं राहुणा रात्रिसं क्षये । उपगम्याब्रवीत् कर्णो दुर्य्योधनमिदं तदा ॥” योगपट्टः । यथा, कुमारे । ३ । ४५ । पर्य्यङ्कबन्धस्थिरपूर्ब्बकायं मृज्वायतं सन्नमितोभयांसम् ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पर्य्य(ल्य)ङ्क¦ पु॰ परिगतोऽङ्कम् प्रा॰ समा॰
“परे{??} अङ्क योः[Page4266-a+ 38] वा रस्य लः।
१ खट्वायाम् (पालङ्क) अमरः।
२ वीरा-सनाङ्के अङ्गस्थापितकरतले यथाह योगसारे वसिष्ठः
“एकं पादमथैकस्मिन् विन्यस्योरौ तु संस्थितम्। इतर-स्मिन् तथैवोर्द्ध्वं वीरासनमिदं स्मृतम्। उत्तानिते कर-तले करमुत्तानितं परम्। आधायाङ्कगतं कृत्वा ध्याये-द्यस्तस्य सोऽन्तरम्”।
३ अवसिक्थकायाम् हेमच॰।
४ योगपट्टे च।
