सामग्री पर जाएँ

पर्य्यन्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पर्य्यन्तः, पुं, (परितोऽन्तम् । प्रादिसमासः ।) शेषसीमा । इति दुर्गादासः ॥ (यथा, पञ्च- तन्त्रे । १ । १४१ । “पर्य्यन्तो लभ्यते भूमेः ससुद्रस्य गिरेरपि । न कथञ्चित् महीपस्य चित्तान्तः केनचित् क्वचित् ॥” समीपम् । यथा, हरिवंशे । १२२ । ५३ । “पर्य्यन्तदेशं सरसेन देवी लिलेप सा लोहितचन्दनेन ॥” पार्श्वः । यथा, रघौ । १८ । ४३ । “पर्य्यन्तसञ्चारितचामरस्य कपोललोलोभयकाकपक्षात् । तस्याननादुच्चरितो विवादः चस्खाल वेलास्वपि नार्णवानाम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=पर्य्यन्तः&oldid=147500" इत्यस्माद् प्रतिप्राप्तम्