सामग्री पर जाएँ

पर्य्याणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पर्य्याणम्, क्ली, (परितो याति गच्छत्यनेनेति । परि + या + ल्युट् । पृषोदरादित्वात् साधुः । अश्व- पल्ययनम् । इति हेमचन्द्रः । ४ । ३१८ ॥ (यथा, बृहत्संहितायाम् । ९३ । ६ । “आरोहणमन्यवाजिनां पर्य्याणादियुतस्य वाजिनः । उपवाह्य तुरङ्गमस्य वा कल्यस्यैव विपन्नशोभना ॥”)

"https://sa.wiktionary.org/w/index.php?title=पर्य्याणम्&oldid=147519" इत्यस्माद् प्रतिप्राप्तम्