पर्य्याप्तम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पर्य्याप्तम्, क्ली, (परि + आप् + भावे क्तः ।) यथेष्टम् । तृप्तिः । शक्तिः । निवारणम् । इति मेदिनी । ते, १२७ ॥ त्रि, प्राप्तः ॥ (शक्तिसम्पन्नः । यथा, भगवद्गीतायाम् । १ । १० । “पर्य्याप्तन्त्विदमेतेषां बलं भीमाभिरक्षितम् ।” “पर्य्याप्तं समर्थं भाति इति ।” श्रीधरस्वामी ॥)
