पर्य्याप्ति
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पर्य्याप्तिः, स्त्री, (परि + आप + क्तिन् ।) परि- त्राणम् । मरणोद्यतस्य निवारणम् । इत्यमर- भरतौ ॥ प्रकाशः । प्राप्तिः । इति शब्दरत्ना- वली ॥ (तृप्तिः । यथा, कथासरित्सागरे । २६ । १९९ । “नास्ति व्यसनिनां वत्स ! भुवि पर्य्याप्तये धनम् ॥” शक्तिः । यथा, तत्रैव । २६ । ४७ । “प्रविष्टः सोऽप्यपश्यत्तां तत्र नेत्रोत्सवप्रदाम् । धातुरद्भुतनिर्म्माणपर्य्याप्तिमिव रूपिणीम् ॥”) स्वरूपसम्बन्धविशेषः । स च सर्व्वेषामेव पदार्थानां विशिष्टबुद्धिनियामकः । पदार्थभेदेन नाना । यथा । पर्य्याप्तिश्चायमेको घट इमौ द्बौ इत्यादि प्रतीतिसाक्षिकः स्वरूपसम्बन्धविशेषः । इति दीधितिः ॥ समवायेन गुणे गुणस्यासत्त्वेऽपि चत्वारो गुणा इत्यादि प्रतीत्या गुणादिषु संख्यादिमत्त्वनियामकोऽपि तादृशसम्बन्धः । इति सामान्याभावे जगदीशः ॥ द्वितीयव्यत्पत्तिवादे गदाधरभट्टाचार्य्यश्च ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पर्य्याप्ति¦ स्त्री परि + आप--भावे क्तिन्।
१ सम्यक् प्राप्तौ न्या-{??}अमतसिद्धे
२ स्वरूपसम्वन्धभेदे तथाहि
“द्वित्वादिकंपर्याप्तिसम्बन्धेन दित्रादिष्वेव वर्त्तते न प्रत्येकम। [Page4267-a+ 38] समवायेन तु प्रत्येकवृत्ति।
“प्रत्येकावृत्तेः समुदायावृ-त्तित्वनियममस्तु समवायादिनैव न पर्य्याप्तिसम्बन्धे-नेति भेदः। स च सवेषामेव पदार्थाना विशिष्टबुद्धि-नियामकः। पदार्थभेदेन नाना यथा
“पर्य्याप्तिश्चाय-मेको घट इमौ द्वौ इत्यादि प्रतीतिसाक्षिकः स्वरूप-सम्बन्धविशेषः” इति दीघितिः। समवायेन गुणे गुण-स्यासत्त्वेऽपि चत्वारो गुणा इत्यादिप्रतीत्या गुणादिषुसंख्यादिसत्त्वनियामकोऽपि तादृशः सम्बन्धः” इतिसामान्यभावे जगदीशः द्वितीयवुत्पतिवादे गदा-धरभट्टाचार्यश्च। पर्याप्तिर्द्विविधा अर्धपर्य्याप्तिः पूर्ण-पर्य्याप्तिश्च। तत्र प्रथमा यत्राधिकस्य निरासार्था यापर्य्याप्तिर्निवेश्यते सार्धपर्य्याप्निः यथा पर्वतो वह्निमान्धूमादित्यादौ साध्यतावच्छेदककह्नित्वनिष्टा पर्य्याप्तिः। द्वितीया। यत्र न्यूनवारणाय या पर्य्याप्तिर्निवेश्यतेसा पूर्णपर्य्याप्तिः। यथा पर्वतो न महानसीयवह्निमा-नित्यादौ साध्यतावच्छेदकीभूतमहानसीवत्वविशिष्टवह्नि-त्वनिष्ठा पर्याप्तिः”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पर्य्याप्ति¦ f. (-प्तिः)
1. Willingness, readiness.
2. Obtaining, acquiring.
3. Satisfaction, repletion, satiety.
4. Entireness, fulness, sufficiency.
5. Adequacy, competency, fitness.
6. Discrimination or distinction of objects according to their natural properties.
7. Preserving, guarding.
8. Warding off a blow. E. परि exceeding, आप्ति obtain- ing.
