पर्य्याप्तिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पर्य्याप्तिः, स्त्री, (परि + आप + क्तिन् ।) परि- त्राणम् । मरणोद्यतस्य निवारणम् । इत्यमर- भरतौ ॥ प्रकाशः । प्राप्तिः । इति शब्दरत्ना- वली ॥ (तृप्तिः । यथा, कथासरित्सागरे । २६ । १९९ । “नास्ति व्यसनिनां वत्स ! भुवि पर्य्याप्तये धनम् ॥” शक्तिः । यथा, तत्रैव । २६ । ४७ । “प्रविष्टः सोऽप्यपश्यत्तां तत्र नेत्रोत्सवप्रदाम् । धातुरद्भुतनिर्म्माणपर्य्याप्तिमिव रूपिणीम् ॥”) स्वरूपसम्बन्धविशेषः । स च सर्व्वेषामेव पदार्थानां विशिष्टबुद्धिनियामकः । पदार्थभेदेन नाना । यथा । पर्य्याप्तिश्चायमेको घट इमौ द्बौ इत्यादि प्रतीतिसाक्षिकः स्वरूपसम्बन्धविशेषः । इति दीधितिः ॥ समवायेन गुणे गुणस्यासत्त्वेऽपि चत्वारो गुणा इत्यादि प्रतीत्या गुणादिषु संख्यादिमत्त्वनियामकोऽपि तादृशसम्बन्धः । इति सामान्याभावे जगदीशः ॥ द्वितीयव्यत्पत्तिवादे गदाधरभट्टाचार्य्यश्च ॥
