पर्य्यायः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पर्य्यायः, पुं, (परि + इन गतौ + ‘परावनुपात्यय इनः ।’ ३ । ३ । ३८ । इति घञ् । क्रमप्राप्त- स्यानतिपातोऽनुपात्ययः ।) पर्य्ययणम् । क्रमः । (यथा, कुमारे । २ । ३६ । “पर्य्यायसेवामुत्सृज्य पुष्पसम्भारतत्पराः । उद्यानपालसामान्यमृतवस्तमुपासते ॥”) तत्पर्य्यायः । आनुपूर्ब्बी २ आवृत् ३ परिपाटी ४ अनुक्रमः ५ । इत्यमरः । २ । ७ । ३७ ॥ आनु- पूर्ब्ब्यम् ६ आनुपूर्ब्बम् ७ आनुपूर्ब्बकम् ८ परि- पाटिः ९ । इति भरतादयः ॥ प्रकारः । अव- सरः । इति मेदिनी । ये, ८९ ॥ निर्म्माणम् । द्रव्यधर्म्मः । इति हेमचन्द्रः ॥ ६ । १३९ । क्रमे- णैकार्थवाचकाः शब्दाः पर्य्यायाः । इति विजय- रक्षितः ॥ सम्पर्कविशेषः । येन सह यत्सम्पर्कः सम्बन्धस्तेन सह तत्पर्य्यायः । यथा, -- “समानं कुलभावञ्च दानादानन्तथैव च । तयोर्व्वंशसमानं हि पर्य्यायञ्च प्रचक्षते ॥” इति कुलदीपिका ॥ (अर्थालङ्कारविशेषः । यथा, साहित्यदर्पणे १० । १०४ । “क्वचिदेकमनेकस्मिन्ननेकञ्चैकगं क्रमात् । भवति क्रियते वा चेत् तदा पर्य्याय इष्यते ॥” उदाहरणं क्रमेण यथा, -- “स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः । वलीषु तस्याः स्खलिताः प्रपेदिरे क्रमेण नाभिं प्रथमोदविन्दवः ॥ विचरन्ति विलासिन्यो यत्र श्रोणिभरालसाः । वृककाकशिवास्तत्र धावन्त्यरिपुरे तव ॥ विमृष्टरागादधरान्निवर्त्तित- स्तनाङ्गरागादरुणाच्च कन्दुकात् । कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोक्षसूत्रप्रणयी तया करः ॥ ययोरारोपितस्तारो हारस्तेऽरिबधूजनैः । निधीयन्ते तयोः स्थूलाः स्तनयोरश्रुबिन्दवः ॥ एषु च क्वचिदाधारः संहतरूपोऽसंहतरूपश्च । क्वचिदाधेयमपि । यथा, ‘स्थिताःक्षणं पक्ष्मसु’ इत्यत्र उदबिन्दवः पक्ष्मादावसं हतरूप आधारे क्रमेणाभवन् । ‘विचरन्ति’ इत्यत्राधेयभूता वृकादयः संहतरूपारिपुरे क्रमेणाभवन् । एव- मन्यत् । अत्र चैकस्यानेकत्र क्रमेणैव वृत्ते- र्विशेषालङ्काराद्भेदः । विनिमयाभावात् परि- वृत्तेः ॥”)
