सामग्री पर जाएँ

पर्य्युदास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पर्य्युदासः, पुं, परि सर्व्वतोभावेन उदास्यते विधि- यत्र सः । (परि + उत् + अस् + घञ् ।) तस्य लक्षणम् श्राद्धविवेके । “सामान्यशास्त्रप्राप्तनिषेधस्यैव पर्य्युदासत्वम् ॥” अपि च मलमासतत्त्वे । “प्राधान्यन्तु विधेर्यत्र प्रतिषेधेऽप्रधानता । पर्य्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥” अस्योदाहरणम् । अमावस्यायां पितृभ्यो दद्यात् रात्रौ श्राद्धं न कुर्व्वीत । अत्र श्राद्धकरणे रात्रेः पर्य्युदासः ॥ (यथा च साहित्यदर्पणे । ७ । ३ । “जुगोपात्मानमत्रस्तो भेजे धर्म्ममनातुरः । अगृध्नुराददे सोऽर्थानसक्तः सुखमन्वभूत् ॥ अत्रात्रस्ततामनूद्यात्मगोपनाद्येवविधेयमिति नञः पर्य्युदासतया गुणभावो युक्तः ॥”)

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पर्य्युदास¦ m. (-सः) A prohibitive rule or precept. E. परि, and उद् before, अस् to throw or be, aff. घञ्; also पर्य्युदासन।

"https://sa.wiktionary.org/w/index.php?title=पर्य्युदास&oldid=282992" इत्यस्माद् प्रतिप्राप्तम्