सामग्री पर जाएँ

पर्व्व

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पर्व्व, गतौ । (भ्वां-परं-सकं-सेट् ।) पर्व्वति । इति दुर्गादासः ॥

पर्व्व, पूर्त्तौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) पर्व्वति पयसा कुम्भं चेटी । इति दुर्गादासः ॥

पर्व्व, [न्] क्ली, (पर्व्वतीति । पर्व्व गतौ + बाहु- लकात् कनिन् । यद्वा, पिपर्त्तीति । पॄ + “स्ना- मदिपद्यर्त्तिपॄशकिभ्यो वनिप् ।” उणां । ४ । ११२ । इति वनिप् ।) महः । ग्रन्थिः । (यथा, भागवते । ५ । २१ । १७ । “तथा वालखिल्या ऋषयोऽङ्गुष्ठपर्व्वमात्राः षष्टिसहस्राणि पुरतः सूर्य्यं सूक्तवाकाय नियुक्ताः संस्तुवन्ति ॥”) प्रस्तावः । लक्षणान्तरम् । दर्शप्रतिपदोः सन्धिः । (पूर्णिमाप्रतिपदोःसन्धिश्च । यथा, साहित्यदर्पणे । “अकालजलदावली किरतु नाम मुक्तावली- रपर्व्वणि विधुन्तुदस्तुदतु नाम शीतद्युतिम् ॥”) विषुवत्प्रभृति । इति मेदिनी । ने, ८८ ॥ ग्रन्थ- विच्छेदः । इति त्रिकाण्डशेषः ॥ (यथा, महा- भारते अष्टादशपर्व्वाणि । तानि उक्तानि यथा तट्टीकायाम् । “आदिः सभावनविराटमथोद्यमश्च भीष्मो गुरू रविजमद्रकसौप्तिकश्च । स्त्रीपर्व्व शान्तिरनुशासनमश्वमेध- व्यासाश्रमो मुषलयानदिवावरोहः ॥”) क्षणः । इति शब्दचन्द्रिका ॥ (भङ्गी । यथा, रघुवंशे । १६ । ४६ । दिने दिने शैवलवन्त्यधस्तात् सोपानपर्व्वाणि विमुञ्चदम्भः ॥”) पञ्चपर्व्वाणि यथा । विष्णुपुराणम् । “चतुर्द्दश्यष्टमी चैव अमावास्याथ पूर्णिमा । पर्व्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च ॥ स्त्रीतैलमांससम्भोगी पर्व्वस्वेतेषु वै पुमान् । विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः ॥” पर्व्वसु कर्त्तव्याकर्त्तव्यानि यथा । ब्रह्मपुराणे । “नित्यं द्वयोरयनयोर्नित्यं विषुवतोर्द्वयोः । चन्द्रार्कयोर्ग्रहणयोर्व्यतीपातेषु पर्व्वसु ॥ अहोरात्रोषितः स्नानं श्राद्धं दानं तथा जपम् । यः करोति प्रसन्नात्मा तस्य स्यादक्षयञ्च तत् ॥” पराशरभाष्ये कूर्म्मपुराणम् । “अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः । न धर्म्मशास्त्रेष्वन्येषु पर्व्वस्वेतानि वर्ज्जयेत् ॥” पैठीनसिः । न पर्व्वसु तैलं क्षौरं मांसमभ्यु- पेयात् नामावस्यायां हरितमपि छिन्द्यात् । इति तिथ्यादितत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=पर्व्व&oldid=147541" इत्यस्माद् प्रतिप्राप्तम्