पर्व्वतवासिनी
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पर्व्वतवासिनी, स्त्री, (पर्व्वते वसतीति । पर्व्वत + वस + णिनि + ङीप् ।) आकाशमांसी । इति राजनिर्घण्टः ॥ गायत्त्री । यथा, -- “उत्तरे शिखरे देवि ! भूम्यां पर्व्वतवासिनि ! । ब्रह्मयोनिसमुत्पन्ने ! गच्छ देवि ! यथासुखम् ॥” इति यजुर्व्वेदीयगायत्त्रीविसर्ज्जनमन्त्रः । काली । यथा, श्यामापूजायां विसर्जनमन्त्रः ॥ “उत्तरे शिखरे देवि ! भूम्यां पर्व्वतवासिनि ! । ब्रह्मयोनिसमुत्पन्ने गच्छ देवि ! ममान्तरम् ॥”
