पर्व्वतीयः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पर्व्वतीयः, त्रि, (पर्व्वते भवः । पर्व्वत + “विभाषा- मनुष्ये ।” ४ । २ । १४४ । इति छः ।) पर्व्वत- सम्बन्धी । पर्व्वतभवः । पाहाडिया इति भाषा । पर्व्वतशब्दात् भवार्थे ईयप्रत्ययनिष्पन्नः । (मनुष्ये तु पार्व्वतीयः । इति सिद्धान्तकौमुदी ॥ यथा, रघुः । ४ । ७७ । “तत्र जन्यं रघोर्घोरं पार्व्वतीयैर्गणैरभूत् । नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम् ॥”)
