पर्व्वसन्धिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पर्व्वसन्धिः, पुं, (पर्व्वणोः सन्धिः) प्रतिपत्पञ्च- दश्योरन्तरम् । इत्यमरः । १ । ४ । ७ ॥ “प्रतिपत्- पञ्चदश्योर्यन्मध्यं स पर्व्वसन्धिः । किंवा स सन्धिः पर्व्वेत्यन्वयः । पञ्चदशानां पूरणी पञ्च- दशी संख्याया डडिति डट् टित्त्वादीप् । पञ्चदशीशब्देन पूर्णिमामावास्ययोर्द्वयोर्ग्रहणम् । अतएव पौर्णमास्या अमावास्या वा शेषसार्द्ध- दण्डचतुष्टयं प्रतिपदश्च प्रथमसार्द्धदण्डचतुष्टयं पर्व्वसन्धिरिति वृद्धाः ॥ सैहिकेयो यदा राहु- र्ग्रसते पर्व्वसन्धिष्विति यमः ॥ पर्व्वणोः सन्धिः पर्व्वसन्धिः पृधातोर्वनिपि पर्व्वपूरणे इत्यस्य नाम्नीत्यनि वा पर्व्व । प्रतिपत्पञ्चदश्योस्तु सन्धिः पर्व्वाथ दिक् ककुविति स्वामी ॥ दर्शप्रतिपदोः सन्धौ ग्रन्थिप्रस्तावयोरपि । पर्व्वशब्दो हि विषुवत्प्रभृतिष्वपि दृश्यते ॥ इति रत्नः ।” इति भरतः ॥
