पलभा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पलभा, स्त्री, (पलस्य भा छविर्यत्र ।) मेषसंक्रमणा- दर्व्वाक् सपादाष्टदिने मध्याह्ने द्बादशाङ्गुल- शङ्कुजा छाया । तत्पर्य्यायः । पलविभा २ विषुवत्प्रभा ३ । यथा, ग्रहलाघवे । “मेषादिगे सायनभागसूर्य्ये दिनार्द्धजा भा पलभा भवेत् सा ॥” पलभयोद्भुतचरखण्डकैः क्रमोत्क्रमस्थैर्हीनान्वितै- र्लङ्कोदयैः स्वदेशीयोदया भवन्ति । अन्यत्स्पष्टा- घिकारेऽपि चरसंस्कृता ग्रहाः स्पष्टा भवन्तीति प्रयोजनम् ॥ यथा, सिद्धान्तशिरोमणौ ॥ “क्रियतुलाधरसंक्रमपूर्ब्बतोऽयनलवोत्थदिनैर्विषु- वद्दिनम् । मकरकर्कटसंक्रमतोऽयनं द्युदलभा विषुवद्दिवसे- ऽक्षभा ॥” “एवं विषुवती छाया स्वदेशे या दिनार्द्धजा । दक्षिणोत्तररेखायां सा तत्र विषुवत्प्रभा ॥” इति सूर्य्यसिद्धान्तः ॥ “अजतुलादिगतस्य रवेर्द्दिने द्युदलभार्कमिताङ्गुलशङ्गुजा । पलविभाथ -- ॥” इति वृद्धवशिष्ठसिद्धान्तः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पलभा¦ स्त्री पलस्य अक्षस्य भा। विषुवद्दिनार्द्धजायां शङ्कु-च्छायायाम्।
“मेषादिगे सायनसूर्यभागे दिनार्द्धर्जा भापलभा भवेत् सा” ग्रहलाघयम्। अक्षभाविषुवद्भाद-योऽप्यत्र
“भुजोऽक्षभा कोटिरिनाङ्कुलो ना” सि॰ शि॰
“अक्षभा नाम पलमा” प्रमिता॰
“रेखा प्राच्यपरा साध्याविषुवद्भा ग्रहस्तया” सू॰ सि॰ रङ्गनाथव्याख्यायां वि-स्तरो दृश्यः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पलभा¦ f. (-भा) The mid-day shadow of a gnomon, when the sun is in the equinoctial points.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पलभा/ पल--भा f. the equinoctial shadow at midday Su1ryas. Sch.