पलम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पलम्, क्ली, (पलतीति । पल + अच् ।) आमिषम् । कर्षचतुष्टयम् । इत्यमरः । ३ । ३ । २०१ ॥ २ । ९ । ८६ ॥ तत्तु शास्त्रे तोलकचतुष्टयम् । वैद्यके अष्ट- तोलकम् । लौकिके साष्टरक्तिद्विमाषकतोलक- त्रितयम् । तत्पर्य्यायः । मुष्टिः २ प्रकुञ्चः ३ चतुर्थिका ४ विल्वम् ५ षोडशिकाम्रम् ६ । इति वैद्यकपरिभाषा ॥ यथा, तिथ्यादितत्त्वे । “पलन्तु लौकिकैर्मानैः साष्टरक्तिद्बिमाषकम् । तोलकत्रितयं ज्ञेयं ज्योतिर्ज्ञैः स्मृतिसम्मतम् ॥” विघटिका । इति राजनिर्घण्टः ॥ सा तु घटिकाषष्टिभागैकभागः । षष्टिविपलश्च । पल- दण्डयोः प्रमाणन्तु । “दशगुर्व्वक्षरोच्चारकालः प्राणः षडात्मकैः । तैः पलं स्यात्तु तत्षष्ट्या दण्ड इत्यभिधीयते ॥” तेन च । “मा कान्ते पक्षस्यान्ते पर्याकाशे देशे स्वाप्सीः कान्तं वक्त्रं वृत्तं पूर्णं चन्द्रं मत्वा रात्रौ चेत् । क्षुत्क्षामः प्राटंश्चेतश्चेतो राहुः क्रूरः प्राद्या- त्तस्माद्धान्ते हर्म्म्यस्यान्ते शय्यैकान्ते कर्त्तव्या ॥” अस्यैकपाठात् पलं षष्ठिपाठाद्दण्डः । इति ज्योतिस्तत्त्वम् ॥
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a measurement: thirteen palas make one मागध measure, (jalaprastha-वा। प्।): [न्।ब्। ४० palas make at present one Madras measure.] Br. IV. 1. २१७; वा. १००. २१९; Vi. VI. 3. 8.
