पलाण्डुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पलाण्डुः, पुं, (पलस्य मांसस्य अण्डमिवाचर- तीति । “मृगय्वादयश्च ।” उणां १ । ३८ । इति कुप्रत्ययात् साधुः ।) मूलविशेषः । पेयाज् इति भाषा । तत्पर्य्यायः । सुकन्दकः २ । इत्य- मरः । २ । ४ । १४७ ॥ लोहितकन्दः ३ । इति रत्नमाला ॥ तीक्ष्णकन्दः ४ उष्णः ५ मुख- दूषणः ६ शूद्रप्रियः ७ कृमिघ्नः ८ दीपनः ९ मुखगन्धकः १० बहुपत्त्रः ११ विश्वगन्धः १२ रोचनः १३ पलाण्डूः १४ सुकुन्दकः १५ । इति शब्दरत्नावली ॥ अस्य गुणाः । कटुत्वम् । बल्यत्वम् । कफपित्तवान्तिदोषनाशित्वम् । गुरुत्वम् । वृष्यत्वम् । रोचनत्वम् । स्निग्धत्वञ्च । इति राजनिर्घण्टः ॥ यथा, भावप्रकाशे । “पलाण्डुर्यवनेष्टश्च दुर्गन्धो मुखदूषकः । पलाण्डुस्तु गुणैर्ज्ञेयो रसोनसदृशो गुणैः ॥ स्वादुपाकरसोऽनुष्णः कफकृन्नातिपित्तलः । हरते केवलं वातं बलवीर्य्यकरो गुरुः ॥” पलाण्डुभक्षणे दोषो यथा, -- “पलाण्डुं विड्वराहञ्च छत्त्राकं ग्रामकुक्कुटम् । लशुनं गृञ्जनञ्चैव जग्ध्वा चान्द्रायणञ्चरेत् ॥” इति प्रायश्चित्तविवेके याज्ञवल्क्यः ॥