पलान्न
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पलान्नम्, क्ली, (पलं मांसं तेन सह पक्वं अन्नम् । शाकपार्थिवादिवत् समासः ।) मांसादि- युक्तसिद्धभक्तम् । पोलाओ इति भाषा । तस्य पाकप्रकारो द्रव्याणि च यथा । छागमांसं १ शरावः । घृतं । ० शरावपादः । त्वचं ३ माषकम् । लवङ्गं ३ माषकम् । एला ३ माषकम् । तण्डुलं १ शरावः । मरिचं २ तोलकम् । तेजपत्रं २ तोलकम् । कुङ्कमं १ माषकम् । आर्द्रकं २ तोलकम् । लवणं ६ तोलकम् । धन्याकं २ तोलकम् । द्राक्षा ० शरावपादार्द्धम् । छागमांसं सूक्ष्मं थोरयित्वा शुष्कप्रलेहपाककरणानन्तरं पात्रान्तरे तेज- पत्रोपरि अल्पाखण्डगन्धद्रव्येण सह प्रथमं सज्जीकर्त्तव्यम् । ततस्तण्डुलं जलेनार्द्धसिद्धं कृत्वा मण्डगालनपूर्ब्बकमल्पाखण्डगन्धद्रव्येण सह तन्मांसोपरि सज्जीकर्त्तव्यम् । एवं प्रकारेण वारं वारं सज्जीकृत्य तदुपरि अवशिष्टघृत- क्षेपणेन दण्डद्वयं तप्ताङ्गारोपरि रक्षेत् । इति पाकराजेश्वरः ॥ * ॥ अत्र मांसस्थाने मत्स्य- फलमूलादिकं गन्धद्रव्येण सह दधियोगः घृत- परिमाणस्याधिक्यञ्च भवितुमर्हति ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पलान्न¦ न॰ पलमिश्रणेन पक्वमन्नं शा॰ त॰। (पोलाओ)ख्याते मांसादिमिश्रणेन पक्वान्नभेदे तत्र द्रव्यादिपाकरा-जेश्वरे उक्तानि यथा
“शरावमात्रं छागमांसं तत्पादमितंघृतम् त्रिमाषकं त्वचं लवङ्गमेलाफलञ्च। शरावमिता-स्तण्डुलाः। मरिचं तोलकद्वयम् एकमाषकं कुङ्कुमम्। आद्रकं तोलकद्वयमात्रं षट्तोलकं लवणम्। शरावार्द्ध-प्रादमिता दाक्षा”। तत्पाकप्रकारो यथा
“छागमांससूक्ष्मं थोरयित्वा शुष्कप्रलेहपाककरणानन्तरं पात्रान्तरेतेजपत्रोपरि अल्पाखण्डगन्धद्रव्येण सह प्रथमं सज्जीकर्त्तव्यम्। ततस्तण्डुलं जलेनार्द्धसिद्धं कृत्वा मण्डगा-लनपूर्वकमल्पाखण्डगन्धद्रव्येण सह तन्मांसोपरि सज्जीकर्त्तव्यम्। एवंप्रकारेण वारंवार सज्जीकृत्य तदुपरिअबशिष्टघृतक्षेपणेन दण्डद्वयं तप्ताङ्गारोपरि रक्षेत्”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पलान्न/ पला n. rice with meat Sus3r. ( v.r. यवा-न्न).
