सामग्री पर जाएँ

पलाशः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पलाशः, पुं, (पलाशानि पर्णानि सन्त्यस्य । “अर्श आदिभ्योऽच ।” ५ । २ । १२७ । इत्यच् ।) स्वनाम- ख्यातवृक्षः । स तु ब्रह्मणः स्वरूपः । यथा, -- सूत उवाच । “अश्वत्थरूपो भगवान् विष्णुरेव न संशयः । रुद्ररूपो वटस्तद्वत् पलाशो ब्रह्मरूपधृक् ॥ दर्शनस्पर्शसेवासु ते वै पापहराः स्मृताः । दुःखापद्व्याधिदुष्टानां विनाशकारिणो ध्रुवम् ॥ ऋषय ऊचुः । कथं वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः । एतत् कथय सर्व्वज्ञ ! संशयोऽत्र महान् हि नः ॥ सूत उवाच । पार्व्वतीशिवयोर्देवैः सुरतं कुर्व्वतोः किल । अग्निं ब्राह्मणवेशेन प्रेष्य विघ्नं कृतं पुरा ॥ ततस्तु पार्व्वती क्रुद्धा शशाप त्रिदिवौकसः । रेतःसेकसुखभ्रंशकम्पमाना तदा रुषा ॥ पार्व्वत्युवाच । क्रिमिकीटादयोऽप्येते जानन्ति सुरतेः सुखम् । तस्मान्ममसुखभ्रंशाद्यूयं वृक्षत्वमाप्स्यथ ॥ सूत उवाच । एवं सा पार्व्वती देवी अशपत् क्रुद्धमानसा । तस्माद्वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः ॥” इति पाद्मोत्तरखण्डे १६० अध्यायः ॥ तत्पर्य्यायः । किंशुकः २ पर्णः ३ वातपोथः ४ । इत्यमरः । २ । १ । २९ ॥ याज्ञिकः ५ त्रिपर्णः ६ वक्रपुष्पः ७ पूतद्रुः ८ ब्रह्मवृक्षकः ९ ब्रह्मोप- नेता १० काष्ठद्रुः ११ । अस्य गुणाः । कषा- यत्वम् । उष्णत्वम् । क्रिमिदोषविनाशित्वञ्च ॥ तद्- बीजगुणः । पामकण्डूतिदद्रुत्वग्दोषनाशित्वम् ॥ तत्पुष्पगुणः । उष्णत्वम् । कण्डूकुष्ठनाशित्वञ्च ॥ तत्पुष्पं चतुर्विधं यथा, राजनिर्घण्टे । “रक्तः पीतः सितो नीलः कुसुमैस्तु विभाव्यते । किंशुकैर्गुणसाम्योऽपि सितो विज्ञानदः स्मृतः ॥” “पलाशः किंशुकः पर्णो याज्ञिको रक्तपुष्पकः । क्षारश्रेष्ठो वातपोथो ब्रह्मवृक्षः समिद्वरः ॥ पलाशो दीपनो वृष्यः सरोष्णो व्रणगुल्मजित् । कषायः कटुकस्तिक्तः स्निग्धो गुदजरोगजित् ॥ भग्नसन्धानकृद्दोषग्रहण्यर्शःक्रिमीन् हरेत् । तत्पुष्पं स्वादु पाके तु कटु तिक्तं कषायकम् ॥ वातलं कफपित्तास्रकृच्छ्रजिद्ग्राहि शीतलम् । तृड्दाहशमनं वातरक्तकुष्ठहरं परम् ॥ फलं लघूष्णं मेहार्शःक्रिमिवातकफापहम् । विपाके कटुकं रूक्षं कुष्ठगुल्मोदरप्रणुत् ॥” इति भावप्रकाशः ॥ पलाशभेदा । यथा, -- “तद्भेदे स्यात् किंशुलुकः किञ्चलो हस्तिकर्णकः ॥” इति शब्दरत्नावली ॥ (पलाशस्य फलपुष्पादौ क्ली ॥) शटी । (पलं मांशं अश्नातीति । पल + अश् + अण् । यद्वा, पले मांसे आशा यस्य ।) राक्षसः । इति मेदिनी । शे, २४ ॥ हरितः । मगधदेशः । इति शब्दरत्नावली ॥

पलाशः, त्रि, (पलवद्धरिद्बर्णेन अश्यते व्याप्यते इति । अश + घञ् ।) हरिद्वर्णविशिष्टः । इति मेदिनी । शे, २४ ॥ निर्द्दयः । इति धरणिः ॥

"https://sa.wiktionary.org/w/index.php?title=पलाशः&oldid=147651" इत्यस्माद् प्रतिप्राप्तम्