पलाशम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पलाशम्, क्ली, (पलं गतिं कम्पनमित्यर्थः । अश्नुते व्याप्नोतीति । पल + अश + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) पत्रम् । इत्यमरः । २ । ४ । १४ ॥ (यथा, महाभारते । ३ । ३५ । २५ । “बृहच्छाल इवानूपे शाखापुष्पपलाशवान् ॥” पलाशस्य पलाशवृक्षस्य इदम् । पलाशपुष्पादि । यथा कुमारे । ३ । २९ । “बालेन्दुवक्राण्यविकाशभावात् बभुः पलाशान्यतिलोहितानि । सद्यो वसन्तेन ममागतानां नखक्षतानीव वनस्थलीनाम् ॥”)
