पलाशी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पलाशी, [न्] पुं, (पलाशं विद्यतेऽस्य । पलाश + इनिः ।) वृक्षः । इत्यमरः । २ । ४ । ५ ॥ (पलं मांसं अश्नातीति । अश + णिनिः ।) राक्षसः । इति मेदिनी । ने, १९३ ॥ क्षीरि- वृक्षः । इति रत्नमाला ॥ (पत्रविशिष्टे वाच्य- लिङ्गः । यथा, -- “ततः स भगवान् विद्वान् काश्यपो द्विजसत्तमः । भष्मराशीकृतं वृक्षं विद्यया समजीवत् ॥ अङ्कुरं कृतवांस्तत्र ततः पर्णद्वयान्वितम् । पलाशिनं शाखिनञ्च तथा विटपिनं पुनः ॥” इति महाभारते । १ । ४३ । ९ -- १० ॥ स्त्री, नदीविशेषः । इत्यन्तु शुक्तिमत्पर्व्वतसम्भूता । यथा, मार्कण्डेये । ५७ । ३० । “कृपा पलाशिनी चैव शुक्तिमत्प्रभवा स्मृता ॥”)
पलाशी, स्त्री, (पलाश + गौरादित्वात् ङीष् ।) लाक्षा । लताविशेषः । तत्पर्य्यायः । पत्रवल्ली २ पर्णवल्ली ३ पलाशिका ४ सुरपर्णी ५ सुपर्णी ६ दीर्घवल्ली ७ विषादनी ८ अम्लपत्री ९ दीर्घपत्री १० रसाम्ला ११ अम्लिका १२ अम्लातकी १३ काञ्जिका १४ । अस्या गुणाः । मधुरत्वम् । अम्लत्वम् । मुखदोषारोचकनाशित्वम् । पथ्य- त्वम् । पित्तकोपकारित्वञ्च । इति राजनिर्घण्टः ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पलाशी f. a species of climbing plant L.
