सामग्री पर जाएँ

पल्वलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पल्वलम्, क्ली, पुं, (पलति गच्छति पिबत्यस्मिन् वा । पल गतौ पा पाने वा + “सानसिवर्णसिपर्ण- सीति ।” उणां । ४ । १०७ । इति निपातनात् वलच् प्रत्ययेन सिद्धम् ।) अल्पसरः । इत्य- मरः । १ । १० । २८ ॥ (यथा, महाभारते । ७ । ५१ । ९ । “पल्वलानि च सर्व्वानि सर्व्वे चैव तृणोपलाः । स्थावरं जङ्गमञ्चैव निःशेषं कुरुते जगत् ॥”) तस्य लक्षणं यथा, -- “अल्पं सरः पल्वलं स्याद्यत्र चन्द्रर्क्षगे रवौ । न तिष्ठति जलं किञ्चित्तत्रत्यं वारि पाल्वलम् ॥ तज्जलगुणाः । पाल्वलं वार्य्यभिष्यन्दि गुरु स्वादु त्रिदोषकृत् ॥” इति भावप्रकाशः ॥ “पाल्वलं गुर्व्वभिष्यन्दि विष्टम्भि दोषलं परम् ॥” इति राजवल्लभः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पल्वलम् [palvalam], A small pool or pond, a puddle, tank (अल्पं सरः); स पल्वलजले$धुना......कथं वर्तताम् Bv.1.3; R.2.17;3.3. -Comp. -आवासः a tortoise. -कर्षक a. ploughing a pool. -पङ्कः the mud of a pool.

"https://sa.wiktionary.org/w/index.php?title=पल्वलम्&oldid=285115" इत्यस्माद् प्रतिप्राप्तम्