पवनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पवनम्, क्ली, (पूयते अग्निसंयोगेन यस्मिन् । पू + आधारे ल्युट् ।) कुम्भकारस्य आमघटादिपाक- स्थानम् । पोयान् इति भाषा । इति मेदिनी । ने, ८४ ॥ (यथा, -- “यः कुम्भकारपवनोपरिपङ्कलेप- स्तापाय केवलमसौ न तु तापशान्त्यै ॥”) इत्युद्भटः ॥) पयनमिति प्रमादपाठः । जलम् । इति शब्द- माला ॥ प्रयते त्रि । इति शब्दरत्नावली । (भावे ल्युट् ।) पवित्रीकरणञ्च ॥
