सामग्री पर जाएँ

पवनविजय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पवनविजयः, पुं, (पवनं श्वासवायुंविजयतेऽनेन । वि + जि + करणे अप् । यद्वा, पवनस्य विजयो यत्र ।) शुभाशुभसूचकश्वासवायुजयोपायकग्रन्थ- विशेषः । यथा -- सूत उवाच । “हरेः श्रुत्वा हरो गौरीं देहस्थं ज्ञानमब्रवीत् । कुजो वह्नी रविः पृथ्वी शौरिरापः प्रकीर्त्तिताः ॥ वायुसंस्थास्थितो राहुर्दक्षरन्ध्रावभासकः । गुरुः शुक्रस्तथा सौम्यश्चन्द्रश्चैव चतुर्थकः ॥ वामनाड्यास्तु मध्यस्थान् कारयेदात्मनस्तथा । यदाचार इडायुक्तस्तदा कर्म्म समाचरेत् ॥ अन्यत्र वामवाहे तु नाम वै विषमाक्षरम् । तदासौ जयमाप्नोति योधः संग्राममध्यतः ॥ दक्षवातप्रवाहे तु यदि नाम समाक्षरम् । जायते नात्र सन्देहो नाडीमध्ये तु लक्षयेत् ॥ पिङ्गलान्तर्गते प्राणे समानीयाहवञ्जयेत् । यावन्नाड्योदयं चारस्तां दिशं यावदाजयेत् । न जातु जयते सोऽपि नात्र कार्य्या विचारणा ॥ अथ संग्राममध्ये तु यत्र नाडी सदा वहेत् । सा दिशा जयमाप्नोति शून्ये भङ्गं विनिर्द्दिशेत् ॥ जातचारे जयं विद्यान्मृतके मृतमादिशेत् । जयं पराजयञ्चैव यो जानाति स पण्डितः ॥ वामे वा दक्षिणे वापि यत्र सञ्चरते शिरा । कृत्वा तत्पदमादौ तु यात्रां नयति शोभनाम् ॥ शशिसूर्य्यप्रवाहे तु सति युद्धं समाचरेत् । तत्रस्थः पृच्छते यस्तु स साधुर्जयति ध्रुवम् ॥ यां दिशं वहते वायुस्तां दिशं यावदाजयेत् । जयते नात्र सन्देह इन्द्रो यद्यग्रतः स्थितः ॥ मेषाद्या दश या नाड्यो दक्षिणा वामसंस्थिताः । चरस्थिरद्विमार्गे तास्तादृशे तादृशः क्रमात् ॥ निर्गमे निर्गमं याति संग्रहे संग्रहं विदुः । पृच्छकस्य वचः श्रुत्वा घण्टाकारेण लक्षयेत् ॥ वामे वा दक्षिणे वापि पञ्चतत्त्वस्थितः शिवे । ऊर्द्ध्वेऽग्निरध आपश्च तिर्य्यक्संस्थः प्रभञ्जनः । मध्ये तु पृथिवी ज्ञेया नभः सर्व्वत्र सर्व्वदा ॥ ऊर्ड्घे मृत्युरधः शान्तिस्तिर्य्यक् चोद्घाटयेत् सुधीः । मध्ये ह्यस्तं विजानीयान्मोक्षः सर्व्वत्र सर्व्वगे ॥” इति गारुडे पवनविजयादि ६७ अध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पवनविजय¦ पु॰ पवनः श्वासवायुर्विजीयतेऽनेन। वि + जि-करणे अच्। देहस्थवायोः श्वासप्रश्वासगतिभेदेन शुभा-शुभसूचके ग्रन्यभेदे तत्प्रकारो गरुडपु॰ उक्तो यथा(
“कुजे वह्नी रविः पृथ्वी शौरिरापः प्रकीर्त्तिताः। वायुसंस्थास्थितो राहुर्दक्षरन्ध्रावभासकः। गुरुः शुक्र-स्तथा सौम्यश्चन्द्रश्चैव चतुर्थकः। वामनाड्यास्तु मध्य-स्थान् कारयेदात्मनस्तषा। यदाचार इडागुक्तस्तदा[Page4274-a+ 38] कर्म समाचरेत्। स्थानसेवां तथा ध्यानं बाणिज्यं राजदर्शनम्। अन्यानि शुभकर्माणि कारयेत प्रयत्नतः। दक्षनाडीप्रवाहे तु शनिर्भौमश्च सैहिकः। इनश्चैवतथाप्येवं पापानामुदयो भवेत्। शुभाशुभविवेको हिज्ञायते तु स्वरोदयात्। देहमध्ये स्थिता नाड्यो बहु-रूपाः सुबिस्तराः। नाभेरधस्ताद्यः कन्दो अङ्कुरास्तत्रनिर्गताः। द्वासप्ततिसहस्राणि नाभिमध्ये व्यव-स्थिताः। चक्रवच्च स्थितास्तास्तु सर्वाः प्राणहराःस्मृताः। तासां तिस्रोमता श्रेष्ठा वामदक्षिणमध्यमाः। वामा सोमात्मिका प्रोक्ता दक्षिणा रविसन्निभा। म-ध्यमा च भवेदग्निरूपिणी कालरूपिणी। वामाह्यमृतरूपा च जगदाप्यायने स्थिता। दक्षिणा रौद्र-भावेन जगच्छोषयते सदा। द्वयोर्वाहे तु मृत्युः स्यात्सर्वकार्य्यविनाशिनी। निर्गमे च भवेद्वामा प्रवेशे द-क्षिणा स्मृता। कारयेत् क्रूरकर्माणि प्राणे पिङ्गलसंस्थिते। इडाचारे तथा सौम्यं चन्द्र सूर्यगतस्तथा। यात्रार्या सर्वकार्य्येषु विषापहरणे इडा। भोजनेमैथुने युद्धे पिङ्गला सिद्धिदायिका। उच्चाटमारणा-द्येषु कर्मस्वेतेषु पिङ्गला। नैथुने चैव संग्रामे मोजनेसिद्धिदायिका। शोभनेषु च कार्येषु यात्रायां विषक-र्मणि। शान्तिमुक्त्यर्थसिद्धौ च इडायोज्या नराधिषैः। द्वाभ्याञ्चैव प्रवाहे च क्रूरसौम्यविवर्जने। विषुवतीन्तुजानीयात् संस्मरेत्तु विचक्षणः। सौम्येषु शुभकार्येषुलाभादिजयजीविते। गमनागमने चैव वामा सर्वत्रपूजिता। युद्धादिभोजने घाते स्त्रीणाञ्चैव तु सङ्गमे। प्रशस्ता दक्षिणा नाडी प्रवेशे क्षुद्रकर्मणि। शुभाशुभानिकार्य्याणि लाभालाभौ जयाजयौ। जीवाजीवाय यत्पृच्छेन्न सिध्यति च मध्यमा। वामाचारेऽथ वा दक्षेप्रत्यये यत्र नायकः। तत्रस्थः पृच्छते यस्तु तत्र सिद्धिर्नसंशयः। वैच्छन्दो वामदेवस्तु यदा वहति चात्मनि। तत्र भागे स्थितः पृच्छेत् सिद्धिर्भवति निष्कला। वामेवा दक्षिणे बापि यत्र संक्रमते सिरा। धोरे घोराणिकर्माणि सौम्ये वै मध्यमानि च। प्रस्थिते भागतोहंसे द्वाभ्यां वै सर्ववाहिनि। तदा मृत्युं विजानीयात्योगी योगविशारदः। यत्र यत्र स्थितः पृच्छेद्वामष्टक्षिणसम्मुखः। तत्र तत्र समं दिश्याद्वातस्योदयनंतदा। अग्रतो वामिका श्रेष्ठा पृष्ठतो दक्षिणा शुभा। द्वामेन वामिका प्रोक्ता दक्षिणे दक्षिणा शुभा। जीवो[Page4274-b+ 38] जीवति जीवेन यच्छून्यं तत्स्वरी भवेत्। यत्किञ्चित्कार्य्यमुद्दिष्टं जयादि शुभलक्षणम्। तत्सर्वं पूर्णना-ड्यान्तु जायते निर्विकल्पकम्। अन्यनाड्यादिपर्य्यन्तं पक्ष-त्रयमुदाहृतम्। यावत् षष्ठीं तु पृच्छायां पूर्णायां प्र-थमं जयेत्। रिक्तायान्तु द्वितीयन्तु कथयेत्तदशङ्कितः। वामाचारः समं वायुर्जायते कर्मसिद्धिदः। प्रवृत्तेदक्षिणे मार्गे विषमे विषमाक्षरम्। अन्यत्र वामवाहेनु नाम वै विषमाक्षरम्। तदासौ जयमाप्नोति योधःसंग्राममध्यतः। दक्षवातप्रवाहे तु यदि नाम समाक्षरम्। जायते नात्र सन्देहो नाडीमध्ये तु लक्षयेत्। पिङ्ग-लान्तर्गते प्राणे समानीयाहवञ्जयेत्। यावन्नाड्युदयंचारस्तां दिशं यावदाजयेत्। न जातु जयते सोऽपिनात्र कार्य्या विचारणा। अथ संग्राममध्ये तु यत्रनाडी सदा वहेत्। सा दिशा जयभाप्नोति शून्ये भङ्गंविनिर्दिशेत्। जातस्वरे जयं विद्यान्मृतके मृतिमा-दिशेत्। जयं पराजयञ्चैव योजानाति स पण्डितः। वामे वा दक्षिने वापि यत्र सञ्चरते सिरा। कृत्वा तत्पदमादौ तु यात्रां नयति शोभनाम्। शशिसूर्यप्रवाहेनु सति युद्धं समाचरेत्। तत्रस्थः पृच्छते यस्तु ससाधुर्जयते ध्रुवम्। यां दिगं वहते वायुस्तां दिशंयावदाजयेत्। जयते नात्र सन्देह इन्द्रो यदग्रतःस्थितः। मेषाद्या दश या नाड्यो दक्षिणा वामसंस्थिताः। चरस्थिरद्विमार्गे तास्तादृशे तादृशः क्रमात्। निर्गमेनिर्गमं याति संग्रहे संग्रहं बिदुः। पृच्छकस्य वचःश्रुत्वा घण्टाकारेण लक्षयेत्। वामे वा दक्षिणे वापिपञ्चतत्त्वस्थितः शिवे!। ऊर्द्ध्वेऽग्निरध आपश्च तिर्य्यक्-संस्थः प्रभञ्जनः। मध्ये तु पृथिवी ज्ञेया नभः सर्वत्रसर्वदा। ऊर्द्ध्वे मृत्युरधः शान्तिस्तिर्य्यक् चोद्घाटयेत्सुधीः। मध्ये ह्यस्तं विजानीयान् मोक्षः सर्वत्र सर्वगे”।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पवनविजय/ पवन--विजय m. " victory over the -wwind or breath " , N. of sev. Tantric works.

"https://sa.wiktionary.org/w/index.php?title=पवनविजय&oldid=285228" इत्यस्माद् प्रतिप्राप्तम्