सामग्री पर जाएँ

पवित्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पवित्रः, त्रि, (पू + इत्र ।) व्रतादिना शुद्धः । (यथा, गीतायाम् । ४ । ३८ । “नहि ज्ञानेन सदृशं पवित्रमिह विद्यते ॥”) तत्पर्य्यायः । प्रयतः २ पूतः ३ । एतत्त्रयं प्राणिविषयमात्रम् । शुचिः ४ शुद्धः ५ पवि- त्रितः ६ । इति शब्दरत्नावली ॥ पुण्यः ७ पावनः ८ । इति जटाधरः ॥ (पूयतेऽनेन । पूञ् + “पुवः संज्ञायाम् ।” ३ । २ । १८५ । इति इत्रः ।) शुद्धद्रव्यम् । तत्पर्य्यायः । पूतम् २ मेध्यम् ३ । एतत्त्रयं अप्राणिद्रव्यविषयम् । इति ब्रह्मवर्गे विशेष्यनिघ्ने च अमरभरतौ ॥ शुद्ध्यम् ४ शुचि ५ पुण्यम् ६ पूतिवत् ७ । इति जटाधरः ॥ (यथा, -- “बल्यं पवित्रमायुष्यं सुमङ्गल्यं रसायनम् । एतत्तु गव्यघृतगुणपरम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ॥)

पवित्रः, पुं, (पुनातीति । पू + कर्त्तरि इत्रः ।) तिलवृक्षः । पुत्त्रजीववृक्षः । इति राजनिर्घण्टः ॥ (तिलपुत्त्रजीवशब्दयोरस्य विर्वृतिर्ज्ञेया ॥) कार्त्तिकेयस्य नामान्तरम् । यथा, महाभारते । ३ । २३१ । ६ । “षष्ठीप्रियश्च धर्म्मात्मा पवित्रो मातृवत्सलः ॥”)

"https://sa.wiktionary.org/w/index.php?title=पवित्रः&oldid=147735" इत्यस्माद् प्रतिप्राप्तम्