पवित्रम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पवित्रम्, क्ली, (पूयतेऽनेनेति । पू + “पुवः संज्ञा- याम् ।” ३ । २ । १८५ । इति इत्रः ।) वर्षणम् । कुशम् । (यथा, मनुः । २ । ७५ । “प्राक्कूलान् पर्य्युपासीनः पवित्रैश्चैव पावितः ॥”) ताम्रम् । पयः । इति मेदिनी । रे, १७७ ॥ घर्षणम् । इति विश्वः ॥ अर्घोपकरणम् । इति हेमचन्द्रः ॥ यज्ञोपवीतम् । इति त्रिकाण्डशेषः ॥ घृतम् । मधु । इति राजनिर्घण्टः ॥ पार्व्वण- श्राद्धादावर्घार्थं होमादावाज्यसंस्काराद्यर्थञ्च साग्रनिर्गर्भकुशान्तरवेष्टितप्रादेशमात्रकुशपत्र- द्वयम् । यथा, -- “अनन्तर्गर्भिणं साग्रं कौशं द्बिदलमेव च । प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् ॥” इति श्राद्धतत्त्वम् ॥ (विष्णुः । यथा, महाभारते । १२ । १४९ । २० । “प्रभूतस्त्रिककुद्धाम पवित्रं मङ्गलं परम् ॥” महादेवः । यथा तत्रैव । १२ । १७ । ३५ । “पवित्रञ्च महांश्चैव नियमो नियमाश्रितः ॥”)
