सामग्री पर जाएँ

पवित्रारीपण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पवित्रारीप(ह)ण¦ न॰

६ त॰। विष्णुप्रभृतिदेवसम्प्रदाबवेयज्ञोपवीतदाने देवभेदेन तिथिभेदादौ तद्दानप्रकारश्चहेमा॰ व्र॰ विष्णुरहस्ये उक्तो यथा(
“तस्माद्भक्तिसमायुक्तैर्नरैर्विष्णुपरायणैः। वर्षे वर्षेप्रकर्त्तव्यं परित्रारोपणं हरेः। श्रावणस्य सिते पक्षेकर्कटस्थे दिवाकरे। द्वादश्यां वासुदेवस्य पवित्रारोपणंस्मृतम्। सिंहस्थे वा रवौ कार्य्यं कन्थायान्तु गतेऽथवा। तस्यामेव तिथौ सम्यक् तुलास्थे न कथञ्चन। विष्णोरुद्रस्य सूर्य्यस्य विरिञ्चेः षण्मुखस्य च। देव्याग-णाधिनाथस्य मातॄणां धनदस्य च। पवित्रारोपणंकार्य्यमन्येषाञ्च यथाविधि। अकृत्वा फलहानिः स्यात्संवत्सरकृतार्चनात्। सर्वेषान्तु महत् पुण्यं पवित्रा-रोपणे कृते। तिथयस्तत्त्वविन्यासाः पृथगुक्तास्तपी-धन!। प्रतिपद्वनदस्योक्ता पवित्रारोपणे तिथिः। श्रियादेव्या द्वितीया तु तिथीनामुत्तमा तिथिः। तृतीया तुभवान्यास्तु चतुर्थी तत्सुतस्य तु। पञ्चमी नागराजस्यषष्ठी प्रोक्ता गुहस्य च। सप्तमी भास्करे प्रोक्ता दुर्गाया-श्चाष्टमी स्मृता। मातॄणां नवमी प्रोक्ता दशमी वासुकेःस्मृता। एकादशी ऋषीणान्तु द्वादशी चक्रपाणिनः। त्रयोदशी ह्यनङ्गस्य शिवस्योक्ता चतुर्दशी। मम देवमुनि-श्रेष्ठ! पौर्णमासी तिथिः स्मृता। यथोक्ताः शुक्लपक्षेतु तिथयः श्रावणस्य च। सर्वेषामेव देवानां तथा कार्य्यंयथाविधि। प्रथमं दर्भसूत्रन्तु पद्मसूत्रं ततःपरम्। ततः क्षौमं सुपुण्यं स्यात् पट्टसूत्रं ततः परम्। शुचिकार्पाससूत्रेण निर्मितं वा शुभाशुमम्। शुचिर्भूत्वाशुचौ देशे कारयीत प्रयत्नतः। तद्विधानोपयुक्तन्तु य-थोक्तफलदायकम्। कन्था कर्त्तयते सूत्रं नारी वाथपतिव्रता। विधवा साधुशीला वा सूत्रमेतत्तु कर्त्त-येत्। केशयुक्तं क्षतं दग्धं मद्यरक्तादिदूषितम्। म-लिनं नीलरक्तं वा प्रयत्नेन विवर्जयेत्। यथोक्तं सूत्र-मादाय त्रिगुणं त्रिः प्रयोजयेत्। पवित्रं तेन कुर्वीतकनिष्ठोत्तममध्यमम्। कनिष्ठं तन्तुमिर्ज्ञेयं सप्तविंश-तिमिः शुभम्। मर्त्त्यलोके तु तत्कीर्त्तिसुखायुर्द्धन-पुत्रदम। चतुःपञ्चाशता ज्ञेयं तन्त नां मध्यमं परम्। दिव्यभोगावहं पुण्यं स्वर्गाबाससुखप्रदम्। उत्तमं[Page4276-a+ 38] चैव तन्तूनां शतमष्टोत्तरं शतम्। दत्त्वा तद्वासदेवायविष्णुलोकं भजेन्नरः। अष्टोत्तरसहस्रं तु तन्तूनां परि-संख्यया। वनमाला स्मृता विष्णोर्दत्ता भक्तिप्रदा हिसा। कनिष्ठं नाभिमात्रं स्यादूरुमात्रन्तु मध्यमम्। पवित्रं चीत्तमं प्रोक्तं जामुमात्रं प्रमाणतः। वनमालाप्रमाणेन प्रतिमायाः प्रणीयते। नराणां जन्मससारदुःखमृत्युप्रणाशिनी। कनिष्ठे द्वादशैवोक्ता मध्यमेद्विगुणाः स्मृताः। त्रिगुणास्तूत्तमे प्रोक्ता ग्रन्थयस्तुपवित्रके। शतमष्टोत्तरं कार्य्यं ग्रन्थीनां तु विधा-जतः। मुनीन्द। वनमालायां विष्ण्पूजनतत्पर!। अधिवासनसूत्रे तु ग्रन्थयो द्वादश मृताः। तत्त्वन्यासविधानं तु श्रूयतां गुह्यकोत्तम”। इत्युपक्रमे तत्त्वन्यासस्तत उक्तः
“पवित्रं तेन विख्यातं ब्रह्मतेजो हि गी-यते। विष्ण्वाख्यया तु विख्यातं तदा लोके निग-द्यते। तदेव सूत्ररूपेण यज्ञेशः कर्मणः प्रभुः। तदेव त्रिगुणीभूतं नारायणसमाख्यया। त्रिवेदात्मात्रिदेवात्मा त्र्यक्षरः प्रणवः स्मृतः। ते पर्वतात्समु-द्भूता वराहार्द्धाङ्गमाश्रिताः। संघातेन च तन्तूनांनवात्मा परिकीर्त्तितः। तन्तूनां प्रथमो देवो वासुदेवोजगद्गुरुः। हलायुधो द्वितीयस्तु प्रद्युम्नश्च तृतीयकः। अपरे त्वनिरुद्धस्तु ततो नारायणः प्रमुः। ब्रह्माविष्णु-त्वथा नॄणां वरारोहे समाश्रिताः। अधिदैवेन रूपेणअध्यात्म्ये च निबोध मे। मनोबुद्धिरहङ्कारस्तन्मात्राणितथैव च। जीवश्चेति नवैतच्च अध्यात्म्येसुव्यवस्थितम्। द्यौरन्तरिक्षं पृथिवी भूर्भुवःस्वस्तथैव च। अकारश्चा-प्युकारश्च मकारश्चाधिभूतकम्। अग्नित्रयं तथा कर्मत्रयञ्च सदनत्रयम्। ज्ञेयं पवित्रे तद्विद्वानधिदैवमु-दाहरेत्”। शिवपवित्रलक्षणम्
“एकादशाथ वासूत्रैस्त्रिंशता वाष्टयुक्तया। पञ्चशता वा कर्त्तव्यंतुल्यग्रन्थ्यन्तराजकम्। द्वादशाङ्गुलमानानि व्यायामाष्टा-ङ्गुलानि च। लिङ्गविस्तारमानानि चतुरङ्गष्ठिकानिवा। तथैव पिण्डिकास्पर्शे चतुर्थं सार्वदैवतम्। साङ्गावतारकं कार्य्यं पवित्रमतिसुन्दरम्”। पवित्रा-रोहणमप्यत्र
“आ{??}ढशुक्लपक्षस्य याष्टमी श्रावणस्यच। पवित्रारोहण कुर्य्यात् दव{??}तिकरं परम्” कालिकापु॰

५८ अ॰।

"https://sa.wiktionary.org/w/index.php?title=पवित्रारीपण&oldid=285587" इत्यस्माद् प्रतिप्राप्तम्