सामग्री पर जाएँ

पवित्रारोपण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पवित्रारोपणम्, क्ली, (पवित्रस्य यज्ञोपवीतस्य आरोपणं प्रदानं यत्र ।) श्रीकृष्णसम्प्रदानकोप- वीतदानरूपोत्सवविशेषः । यथा, -- “श्रावणस्य सिते पक्षे द्बादश्यां वैष्णवैर्मुदा । कर्त्तव्यः कृष्णदेवस्य पवित्रारोपणोत्सवः ॥” अथ तन्नित्यता बह्वृचपरिशिष्टे । “स स्नातः सर्व्वतीर्थेषु सर्व्वयज्ञे षु दीक्षितः । हरिश्च प्रीतिमाप्नोति यः पवित्रं समाचरेत् ॥ विधिना शास्त्रदृष्टेन यो न कुर्य्यात् पवित्रकम् । हरन्ति राक्षसास्तस्य वर्षपूजादिकं फलम् ॥” योगसारे च पवित्रोत्पत्त्युपाख्यानेन नागराजं पवित्रं प्रति श्रीरुद्रेण वरदानम् । यथा, -- “ये त्वां न बहुमन्यन्ते यथा सम्भावितो मया । जपहोमादिकं तेषां फलं त्वामेतु निश्चयात् ॥ विष्णुरहस्ये । न करोति विधानेन पवित्रारोपणन्तु यः । तस्य साम्बत्सरी पूजा निष्फला मुनिसत्तम् ! ॥ तस्माद्भक्तिसमायुक्तैर्नरैर्व्विष्णुपरायणैः । वर्षे वर्षे तु कर्त्तव्यं पवित्रारोपणं हरेः ॥” अथ पवित्रारोपणमाहात्म्यम् । तत्र बौधायनः । “यावांस्तन्तुः पवित्रस्य तावत् स्वर्गे महीयते । आयुरारोग्यमैश्वर्य्यं विपुलं तस्य वर्द्धते ॥ महासंहितायाम् । सम्बत्सरेण या पूजा कृता वै मन्त्रिणा द्बिज ! । पवित्रदानात् पूर्णा स्यादित्याह भगवान् हरिः ॥ विष्णुरहस्ये । पवित्रारोपणं विष्णोर्भुवि मुक्तिप्रदायकम् । स्त्रीपुंकीर्त्तिप्रदं पुण्यं सुखसम्पद्धनावहम् ॥ पुण्यानान्तु तथा पुण्यं सर्व्वपापहरन्तु वै । पवित्रारोपणं तस्मात् पवित्रं परमं स्मृतम् ॥ सम्बत्सरे नरो भक्त्या समभ्यर्च्च्य जनार्द्दनम् । यत् फलं समवाप्नोति पवित्रारोपणेन तत् ॥ किञ्च । पावयत्येनसो नित्यं त्रायते भवबन्धनात् । पवित्रं तेन विख्यातं ब्राह्मं तेजोऽभिधीयते ॥ विष्ण्वाख्यया तु विख्यातं तदा लोके विधीयते । स एव सूत्ररूपेण यज्ञेशः कर्म्मणां प्रभुः ॥ तदेव त्रिगुणीसूत्रं ततं नारायणाख्यया । त्रिदेवात्मा त्रिवेदात्मा त्र्यक्षरः प्रणवः स्मृतः ॥ अथ पवित्रारोपणविधिः । “सौवर्णै राजतैस्ताम्रैः क्षौमैः सूत्रैस्तु पाद्मिकैः । कार्पासैर्वा पवित्राणीष्यते काशैः कुशैरपि ॥ वनमालां यथा देव ! कौस्तुभं सततं हृदि ॥ तद्वत् पवित्रतन्तूंश्च पूजाञ्च हृदये वह । जानताजानता वापि न कृतं यत्तवार्च्चनम् ॥ केनचिद्विघ्नदोषेण परिपूर्णन्तदस्तु मे ॥ अथाग्निं विधिनाभ्यर्च्च्य पवित्रं तस्य चार्पयेत् । कृष्णे निवेदयेन्मन्त्रहीन इत्यादिना कृतम् ॥ गुरुञ्च शक्त्या संपूज्य पवित्रं गुरवेऽर्पयेत् । वैष्णवेभ्यः पवित्राणि दत्त्वैकं धारयेत् स्वयम् ॥ संपूज्य वैष्णवान् विप्रान् शक्त्या सम्भोज्य बन्धुभिः । समं महाप्रसादान्नं सुखं भुञ्जीत वैष्णवः ॥” अथ पवित्रविसर्ज्जनविधिः । तन्त्रे । “मासं पक्षमहोरात्रं त्रिरात्रं धारयेत्तथा । देवं तं सूत्रसन्दर्भं देशकालानुसारतः ॥ प्रत्यहं स्नानकर्म्मादि सूत्राण्युत्तार्य्य कारयेत् । अभिषिच्याथ तोयेन पुनर्देवे निवेदयेत् ॥ तथान्ते देवमभ्यर्च्च्य विशेषात् पुष्पचन्दनैः । नैवेद्यं विविधं दत्त्वा ततः सूत्रं विसर्ज्जयेत् ॥ ओ~ सांवत्सरीं शुभां पूजां सम्पाद्य विधिवन्मम । व्रजेदानीं पवित्र ! त्वं विष्णुलोकं विसर्ज्जितम् ॥ यावद्देवे पवित्राणि तावत्तिष्ठेत् समाहितः । ब्रह्मचारी हविष्याशी देवपूजापरायणः ॥ तत्फलञ्चोक्तं बौधायनेन । एवं यः कुरुते विद्वान् वर्षे वर्षे न संशयः । स याति परमं स्थानं यत्र देवो नृकेशरी ॥” अथ तत्र मुख्यगौणकालनिर्णयः । “मुख्यकालस्य चैवास्य विघ्नतोपगमे सति । भाद्रादावपि कर्त्तव्यं पवित्रारोपणं प्रभोः ॥ तथा च विष्णुरहस्ये । श्रावणस्य सिते पक्षे कर्कटस्थे दिवाकरे । द्वादश्यां वासुदेवाय पवित्रारोपणं स्मृतम् ॥ सिंहस्थे वा रवौ कार्य्यं कन्यायाञ्च गतेऽथवा । तस्यामेव तिथौ सम्यक् तुलासंस्थे कथञ्चन ॥ मन्त्रतन्त्रप्रकाशे च । कर्क्कटञ्च गते सूर्य्ये तथा सिंहगतेऽपि वा । द्वादश्यां शुक्लपक्षस्य हरेर्द्दद्यात् पवित्रकम् ॥ अथ चेद्विघ्नपातेन मुख्यकालो न लभ्यते । कन्यागतेऽपि कुर्व्वीत यावन्नोत्तिष्ठते हरिः ॥” इति हरिभक्तिविलासः ॥

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पवित्रारोपण¦ n. (-णं)
1. Investiture with the Bra4hminical cord.
2. In- vesting the image of KRISHN4A with it, on the twelfth of the light fortnight of Sra4vana. E. पवित्र, and आरोपण placing.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पवित्रारोपण/ पवित्रा n. " putting on the पवित्र" , investiture with the Brahmanical cord , ( esp. ) investing the image of कृष्णor another deity with the sacred thread , N. of a festival on the 12th day of the light half of श्रावणor अषाढPan5c.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

PAVITRĀROPAṆA : A Pūjāvidhi (a mode of worship). If you perform a Pavitrāropaṇa worship you will get the benefit of worshipping Viṣṇu for a year. This worship is to be conducted in the months of Āṣāḍha (July), Śrāvaṇa (August) Prauṣṭhapada (September), Āśvina (October) and Kārttika (Novem- ber) A sacred Pavitra (sacred thread or ring of Kuśa grass) is to be prepared either in gold, silver, copper, cotton or silk. A specially purified cotton thread is also enough The Pavitra is to be made of three threads woven together. The Pavitra is to be made holy by reciting 108 times the Gāyatrī mantra or even half of that number is enough. Reciting 108 times or more is considered to be Uttama (best); half of it is considered Madhyama (tolerable) and less than it is considered adhama (worst). The Pavitra should then be tied to maṇḍalas and the mantra to be recited at the time of tying it, is this:

Oṁ Nārāyaṇāya vidmahe Vāsudevāya Dhīmahi
tanno Viṣṇuḥ pracodayāt.
(Chapter 34, Agni Purāṇa).


_______________________________
*19th word in left half of page 587 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पवित्रारोपण&oldid=432419" इत्यस्माद् प्रतिप्राप्तम्