पवित्रारोपणम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पवित्रारोपणम्, क्ली, (पवित्रस्य यज्ञोपवीतस्य आरोपणं प्रदानं यत्र ।) श्रीकृष्णसम्प्रदानकोप- वीतदानरूपोत्सवविशेषः । यथा, -- “श्रावणस्य सिते पक्षे द्बादश्यां वैष्णवैर्मुदा । कर्त्तव्यः कृष्णदेवस्य पवित्रारोपणोत्सवः ॥” अथ तन्नित्यता बह्वृचपरिशिष्टे । “स स्नातः सर्व्वतीर्थेषु सर्व्वयज्ञे षु दीक्षितः । हरिश्च प्रीतिमाप्नोति यः पवित्रं समाचरेत् ॥ विधिना शास्त्रदृष्टेन यो न कुर्य्यात् पवित्रकम् । हरन्ति राक्षसास्तस्य वर्षपूजादिकं फलम् ॥” योगसारे च पवित्रोत्पत्त्युपाख्यानेन नागराजं पवित्रं प्रति श्रीरुद्रेण वरदानम् । यथा, -- “ये त्वां न बहुमन्यन्ते यथा सम्भावितो मया । जपहोमादिकं तेषां फलं त्वामेतु निश्चयात् ॥ विष्णुरहस्ये । न करोति विधानेन पवित्रारोपणन्तु यः । तस्य साम्बत्सरी पूजा निष्फला मुनिसत्तम् ! ॥ तस्माद्भक्तिसमायुक्तैर्नरैर्व्विष्णुपरायणैः । वर्षे वर्षे तु कर्त्तव्यं पवित्रारोपणं हरेः ॥” अथ पवित्रारोपणमाहात्म्यम् । तत्र बौधायनः । “यावांस्तन्तुः पवित्रस्य तावत् स्वर्गे महीयते । आयुरारोग्यमैश्वर्य्यं विपुलं तस्य वर्द्धते ॥ महासंहितायाम् । सम्बत्सरेण या पूजा कृता वै मन्त्रिणा द्बिज ! । पवित्रदानात् पूर्णा स्यादित्याह भगवान् हरिः ॥ विष्णुरहस्ये । पवित्रारोपणं विष्णोर्भुवि मुक्तिप्रदायकम् । स्त्रीपुंकीर्त्तिप्रदं पुण्यं सुखसम्पद्धनावहम् ॥ पुण्यानान्तु तथा पुण्यं सर्व्वपापहरन्तु वै । पवित्रारोपणं तस्मात् पवित्रं परमं स्मृतम् ॥ सम्बत्सरे नरो भक्त्या समभ्यर्च्च्य जनार्द्दनम् । यत् फलं समवाप्नोति पवित्रारोपणेन तत् ॥ किञ्च । पावयत्येनसो नित्यं त्रायते भवबन्धनात् । पवित्रं तेन विख्यातं ब्राह्मं तेजोऽभिधीयते ॥ विष्ण्वाख्यया तु विख्यातं तदा लोके विधीयते । स एव सूत्ररूपेण यज्ञेशः कर्म्मणां प्रभुः ॥ तदेव त्रिगुणीसूत्रं ततं नारायणाख्यया । त्रिदेवात्मा त्रिवेदात्मा त्र्यक्षरः प्रणवः स्मृतः ॥ अथ पवित्रारोपणविधिः । “सौवर्णै राजतैस्ताम्रैः क्षौमैः सूत्रैस्तु पाद्मिकैः । कार्पासैर्वा पवित्राणीष्यते काशैः कुशैरपि ॥ वनमालां यथा देव ! कौस्तुभं सततं हृदि ॥ तद्वत् पवित्रतन्तूंश्च पूजाञ्च हृदये वह । जानताजानता वापि न कृतं यत्तवार्च्चनम् ॥ केनचिद्विघ्नदोषेण परिपूर्णन्तदस्तु मे ॥ अथाग्निं विधिनाभ्यर्च्च्य पवित्रं तस्य चार्पयेत् । कृष्णे निवेदयेन्मन्त्रहीन इत्यादिना कृतम् ॥ गुरुञ्च शक्त्या संपूज्य पवित्रं गुरवेऽर्पयेत् । वैष्णवेभ्यः पवित्राणि दत्त्वैकं धारयेत् स्वयम् ॥ संपूज्य वैष्णवान् विप्रान् शक्त्या सम्भोज्य बन्धुभिः । समं महाप्रसादान्नं सुखं भुञ्जीत वैष्णवः ॥” अथ पवित्रविसर्ज्जनविधिः । तन्त्रे । “मासं पक्षमहोरात्रं त्रिरात्रं धारयेत्तथा । देवं तं सूत्रसन्दर्भं देशकालानुसारतः ॥ प्रत्यहं स्नानकर्म्मादि सूत्राण्युत्तार्य्य कारयेत् । अभिषिच्याथ तोयेन पुनर्देवे निवेदयेत् ॥ तथान्ते देवमभ्यर्च्च्य विशेषात् पुष्पचन्दनैः । नैवेद्यं विविधं दत्त्वा ततः सूत्रं विसर्ज्जयेत् ॥ ओ~ सांवत्सरीं शुभां पूजां सम्पाद्य विधिवन्मम । व्रजेदानीं पवित्र ! त्वं विष्णुलोकं विसर्ज्जितम् ॥ यावद्देवे पवित्राणि तावत्तिष्ठेत् समाहितः । ब्रह्मचारी हविष्याशी देवपूजापरायणः ॥ तत्फलञ्चोक्तं बौधायनेन । एवं यः कुरुते विद्वान् वर्षे वर्षे न संशयः । स याति परमं स्थानं यत्र देवो नृकेशरी ॥” अथ तत्र मुख्यगौणकालनिर्णयः । “मुख्यकालस्य चैवास्य विघ्नतोपगमे सति । भाद्रादावपि कर्त्तव्यं पवित्रारोपणं प्रभोः ॥ तथा च विष्णुरहस्ये । श्रावणस्य सिते पक्षे कर्कटस्थे दिवाकरे । द्वादश्यां वासुदेवाय पवित्रारोपणं स्मृतम् ॥ सिंहस्थे वा रवौ कार्य्यं कन्यायाञ्च गतेऽथवा । तस्यामेव तिथौ सम्यक् तुलासंस्थे कथञ्चन ॥ मन्त्रतन्त्रप्रकाशे च । कर्क्कटञ्च गते सूर्य्ये तथा सिंहगतेऽपि वा । द्वादश्यां शुक्लपक्षस्य हरेर्द्दद्यात् पवित्रकम् ॥ अथ चेद्विघ्नपातेन मुख्यकालो न लभ्यते । कन्यागतेऽपि कुर्व्वीत यावन्नोत्तिष्ठते हरिः ॥” इति हरिभक्तिविलासः ॥
