पवित्रारोहण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पवित्रारोहणम्, क्ली, (पवित्रस्य यज्ञोपवीतस्य आरोहणं सम्प्रदानं यत्र ।) पवित्रारोपणम् । यथा, -- “आषाढशुक्लपक्षस्य याष्टमी श्रावणस्य च । पवित्रारोहणं कुर्य्याद्देव्याः प्रीतिकरं परम् ॥ दुर्गातन्त्रेण मन्त्रेण दुर्गाबीजेन भैरव ! । वैष्णवीतन्त्रमन्त्रेण पवित्रारोहणञ्चरेत् ॥ विशेषात् श्रावणादेव देव्याः कुर्य्यात् पवित्रकम् । सर्व्वेषामपि देवानां पवित्रारोहणञ्चरेत् ॥ आषाढे श्रावणे वापि संवत्सरफलप्रदम् । प्रतिपद्धनदस्योक्ता पवित्रारोहणे तिथिः ॥ श्रिया देव्या द्वितीया तु तिथीनामुत्तमा तिथिः ॥ तृतीया भवभाविन्याश्चतुर्थी तत्सुतस्य च ॥ पञ्चमी सोमराजस्य षष्ठी प्रोक्ता गुहस्य च । इयं सांवत्सरी पूजा तवास्तु परमेश्वरि ! ॥ ततो विसर्ज्जयेद्देवीं पूर्ब्बभिः प्रतिपत्तिभिः । एवं कृते पवित्राणां दाने देव्या यथाविधि ॥ संवत्सरस्य या पूजा सम्पूर्णा वत्स ! जायते । कल्पकोटिशतं यावद्देवीगेहे वसेन्नरः । अत्रापि सुखसौभाग्यसमृद्धिरतुला भवेत् ॥” इति कालिकापुराणे ५८ अध्यायः ॥ गरुडपुराणे ४२ । ४३ अध्याययोरप्येतद्द्रष्ट- व्यम् ॥
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पवित्रारोहण¦ n. (-णं) The putting of the Bra4hminical cord on images of DURGA4 on the eighth of the light half of Sra4vana or A4sha4rh. E. पवित्र, and आरोहण mounting.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पवित्रारोहण/ पवित्रा n. investing with the sacred thread(See. रोपण) , N. of a festival in honour of दुर्गाon the 8th day of the light half of श्रावणor अषाढL.