सामग्री पर जाएँ

पव्रजितः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पव्रजितः, पुं, (प्र + व्रज् + क्तः ।) बुद्धभिक्षु- शिष्यः । तत्पर्य्यायः । चेलुकः २ श्रामणेरः ३ महापाशकः ४ गोमी ५ । इति त्रिकाण्डशेषः ॥ त्रि प्रव्रज्याश्रमविशिष्टः ॥ (यथा, पराशर- संहितायाम् । ४ । २६ । “नष्टे मृते प्रव्रजिते क्लीवे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥” प्र + व्रज् + भावे क्तः । क्ली, सन्न्यासः । यथा, महाभारते । ५ । १७६ । ५ । “अलं प्रव्रजितेनेह भद्रे ! शृणु हितं वचः । इतो गच्छस्व भद्रन्ते पितुरेव निवेशनम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=पव्रजितः&oldid=151546" इत्यस्माद् प्रतिप्राप्तम्