पशुः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-पुल्लिङ्गम्[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पशुः, पुं, (अविशेषेण सर्व्वं पश्यतीति । दृशिरौ प्रेक्षणे + “अर्ज्जिदृशिकम्यमिपंसीति ।” उणां । १ । २८ । इति कुः पश्यादेशश्च ।) अन्या व्युत्पत्तिर्यथा, “पशयन्ति पश्यन्ति पार्श्व- हस्ताभ्यां हिताहितम् ।” इति भरतः ॥ जन्तु- विशेषः । तस्य लक्षणम् । लोमवल्लाङ्गूल- वत्त्वम् । इति भाषारत्ने कणादः ॥ तद्भेदा यथा । सिंहः १ व्याघ्रः २ तरक्षुः ३ वराहः ४ कपिः ५ भल्लूकः ६ खड्गी ७ महिषः ८ शृगालः ९ विडालः १० गोधा ११ श्वावित् १२ हरिणः १३ कृष्णसारः १४ रुरुः १५ न्यङ्कुः १६ रङ्कुः १७ शम्बरः १८ रौहिषः १९ गोकर्णः २० पृषतः २१ एणः २२ ऋष्यः २३ रोहितः २४ चमरः २५ गन्धर्व्वः २६ शरभः २७ रामः २८ सृमरः २९ गवयः ३० शशः ३१ खट्टाशः ३२ गौः ३३ उष्ट्रः ३४ छागः ३५ मेषः ३६ खरः ३७ हृस्ती ३८ अश्वः ३९ । इत्यमरः ॥ * ॥ (यथा, (“पशुः पशूनां दौर्ब्बल्यात् कश्चिन्मध्ये वृकायते । ससत्त्वं वृकमासाद्य प्रकृतिं भजते पशुः ॥ तद्वदज्ञो ज्ञमध्यस्थः कश्चिन्मौखर्य्यसाधनः । स्थापयत्याप्तमात्मानमाप्तन्त्वासाद्य भिद्यते ॥” इति चरके सूत्रस्थाने त्रिंशेऽध्याये ॥) तत्र ग्राम्यारण्यभेदेन चतुर्द्दशविधाः पशवो यथा, पशूनां व्रतभङ्गप्रायश्चित्तं यथा, -- “पशूनां व्रतभङ्गादौ विधिं प्रथमतः शृणु । व्रतभङ्गे नित्यभङ्गे नित्यपूजादिकर्म्मणि । सहस्रं प्रजपेन्मन्त्री व्रतदोषोपशान्तये ॥” इति रुद्रयामले उत्तरखण्डे २ पटलः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पशुः [paśuḥ], [सर्वमविशेषेण पश्यति, दृश्-कु पशादेशः]

Cattle (both singly and collectively); प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून् Ms.9.327,331.

An animal in general; a being; सर्वथा यत् पशून् पाति तैश्च यद् रमते पुनः तेषामधिपतिर्यच्च तस्मात् पशुपतिः स्मृतः ॥ Mb.7.22.123.

A sacrificial animal, such as a goat; an oblation, a victim.

A brute, beast; often added to words meaning 'man' to show contempt; a fool; भूतानि चात्मन्यपृथग्दिदृक्षतां प्रायेण रोषो$भिभवेद् यथा पशुम् Bhāg.4.6.46; पुरुषपशोश्च पशोश्च को विशेषः H.1; cf. नृपशु, नरपशु &c.

N. of a subordinate deity and one of Śiva's followers.

An uninitiated person.

The soul, the Supreme Spirit.

A sacrifice in which an animal is killed.

Fire. -Comp. -अवदानम् a sacrifice of animals. -एकत्वन्यायः the rule that the number is intended to be expressed and enjoined when the sense conveyed by the verb forms the principle matter of a sentence. Thus पशुमालभते means एकत्वपुंस्त्वविशिष्टं पशु- मालभते. This न्याय is established by जैमिनि in MS.4.1. 11-16 and 17 an explained by शबर in his भाष्य thereon discussing the text पशुमालभते. (This न्याय is to be contrasted with ग्रहैकत्वन्याय where the लिङ्ग and वचन are अविवक्षित q. v.).

कर्मन, क्रिया the act of animalsacrifice.

copulation. -Comp. -गायत्री a Mantra whispered into the ear of an animal which is about to be sacrificed; it is a parody of the celebrated Gāyatrī q. v.; पशुपाशाय विद्महे शिरश्छेदाय (विश्वकर्मणे) धीमहि । तन्नो जीवः प्रचोदयात्. -घातः slaughter of animals for sacrifice. -घ्नa. slaughtering cattle; वृथापशुध्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि Ms.5.38. -चर्या copulation. -देवता the deity to whom an animal is offered.

धर्मः the nature or characteristics of cattle.

treatment of cattle.

promiscuous cohabitation; अयं (नियोगः) द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः Ms.9.66.

the marrying of widows. -नाथः an epithet of Śiva. -पः a herdsman.

पतिः an epithet of Śiva; Me.38,58; पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमा- गमोत्कः Ku.6.95. कस्त्वं ? शूली,.........पशुपतिर्नैव दृश्ये विषाणे Subhāṣ.

a herdsman, owner of cattle.

N. of a philosopher who taught the philosophical doctrine called पाशुपत; see Sarva. S. ad loc. -पालः, -पालकः a herdsman. पालनम्, -रक्षणम् the tending or rearing of cattle

पाशः the cord with which the sacrificial animal is bound.

an animal sacrifice.

the bonds which enchain the individual soul, the world of sense. -पाश- कम् kind of coitus or mode of sexual enjoyment; स्त्रियमानतपूर्वाङ्गीं स्वपादान्तःपदद्वयम् । ऊर्ध्वांशेन रमेत् कामी बन्धो$यं पशुपाशकः ॥ Ratimañjarī. -प्रेरणम् the driving of cattle.-बन्धः an animal-sacrifice. -बन्धकः a rope for tethering cattle. -मतम् an erroneous or false doctrine. -मारम्ind. according to the manner of slaughtering animals; निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत् Mb.1.154.3; Bhāg. 4.13.41; इष्टिपशुमारं मारितः Ś.6. -यज्ञः, -यागः, -द्रव्यम् an animal-sacrifice. -रज्जुः f. a cord for tethering cattle.-राजः a lion. -लोहितपः a fly. -ष a. Ved. giving cattle.-समाम्नायः a collection of names for animals. -संभवःa. produced by animals (as flesh, honey, butter, etc.); Ms.8.328. -हव्यम् an animal sacrifice; Ms.4.28.

"https://sa.wiktionary.org/w/index.php?title=पशुः&oldid=506800" इत्यस्माद् प्रतिप्राप्तम्