पशुपतिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पशुपतिः, पुं, (पशूनां स्थावरजङ्गमानां पतिः ।) शिवः । इत्यमरः । १ । १ । २२ ॥ (यथा, महाभारते । १३ । १७ । १३४ । “ऊर्द्ध्वगात्मा पशुपतिर्व्वातरंहा मनोजवः ॥” तस्य निरुक्तिर्यथा चिन्तामणिधृतवचने, -- “ब्रह्माद्याः स्थावरान्ताश्च पशवः परिकीर्त्तिताः । तेषां पतिर्महादेवः स्मृतः पशुपतिः श्रुतौ ॥”) अपरा निरुक्तिर्यथा, वराहपुराणे । “अहञ्च सर्व्वविद्यानां पतिराद्यः सनातनः । अहं वै पतिभावेन पशुमध्ये व्यवस्थितः । अतः पशुपतिर्नाम त्वं लोके ख्यातिमेष्यसि ॥” अयं यजमानमूर्त्तिः । यथा । पशुपतये यज- मानमूर्त्तये नमः । इत्यष्टमूर्त्तिपूजायां भविष्य- पुराणम् ॥ (महादेवो हि नेपाले पीठस्थाने पशु- पतिरित्याख्यया विराजते । यदुक्तं महालिङ्गे- श्वरतन्त्रे शिवस्य शतनामस्तोत्रे, -- “नेपाले च पशुपतिः केदारे परमेश्वरः ॥”)
