पश्चिमरात्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पश्चिमरात्र¦ पु॰ पश्चिमं रात्रेः एकदेशिसमा॰ अच्समा॰। रात्रे शेषभागे
“पूर्वापरोत्तरमेकदेशिमैकाधिकरणे” पा॰
“सर्वोऽप्येकदेशोऽह्रा समस्यते सङ्ख्यायिसायेति ज्ञाप्र-कात् मध्याह्नः सायाह्नः। केचित्तु सर्वकदेशः कालेनसमस्यते नत्वह्नेव ज्ञापकस्य सामान्यापेक्षत्वात्। तेनमध्यरात्रः
“उपारताः पश्चिमरात्रगोचरादित्यादि सिद्ध-[Page4281-b+ 38] मित्याहुः” सि॰ कौ॰। मल्लिनाथेन तु
“उपरताः पश्चि-मरात्रिगोचरादिति” पठित्वा समासान्तं निराचष्टे यथापश्चिमा चाऽसौ रात्रिश्चेति विग्रहः अपररात्र इत्यर्थः। पूर्वा दिक् पश्चिमं नभ इत्यादिवत् एकदेशिशब्दस्यैकदेशशब्द-सामानाधिकरण्यादेकदेशे पर्य्यवसानं, न तु पश्चिमं रात्रेरित्येकदेशिसमासः तद्विधायके पूर्वापरादिसूत्रे प-श्चिमशब्दाग्रहणादतएव
“अहः सर्वैकदेशेत्यादिना नसमासान्तोऽपि तस्यापि पूर्वापरादिसूत्रोक्तसमासविषय-त्वादिति। प्रकाशवर्षस्त्वेकदेशिसमासमेवाश्रित्य समासा-न्तमाह तन्मूलं मृग्यम्”।
